

॥ श्री शिवसंहिता॥
॥ प्रथमः पटलः॥
एकं ज्ञानं नित्यमाद्यन्तशून्यं
नान्यत्किञ्चिद्वत्ते ते वस्तु सत्यम्।
यद्भेदोस्मिन्निन्द्रियोपाधिना वै
ज्ञानस्यायं भासते नान्यथैव॥१॥
अथ भक्तानुरक्तोऽहं वक्ति योगानुशासनम्।
ईश्वरः सर्वभूतानामात्ममुक्तिप्रदायकः॥२॥
त्यक्त्वा विवादशीलानां मतं दुर्ज्ञानहेतुकम्।
आत्मज्ञानाय भूतानामनन्यगतिचेतसाम्॥३॥
सत्यं केचित्प्रशंसन्ति तपः शौचं तथापरे
क्षमां केचित्प्रशंसंति तथैव सममार्ज्जवम्॥४॥
केचिद्दानं प्रशंसन्ति पितृकर्म तथापरे
केचित्कर्म प्रशंसन्ति केचिद्वैराग्यमुत्तमम्॥ ५॥
केचिद्गृहस्थकर्माणि प्रशंसन्ति विचक्षणाः
अग्नेहोत्रादिकं कर्म तथा केचित्परं विदुः॥ ६॥
मन्त्रयोगं प्रशंसन्ति केचित्तीर्थानुसेवनम्
एवं बहूनुपायांस्तु प्रवदन्ति हि मुक्तये॥ ७॥
एवं व्यवसिता लोके कृत्याकृत्यविदो जनाः
व्यामोहमेव गच्छंति विमुक्ताः पापकर्मभिः॥ ८॥
एतन्मतावलम्बी ये लब्ध्वा दुरितपुण्यके
भ्रमतीत्यवशः सोऽत्र जन्ममृत्युपरम्पराम्॥ ९॥
अन्यैर्मतिमतां श्रेष्ठैर्गुप्तालोकनतत्परैः
आत्मानो बहवः प्रोक्ता नित्याः सर्वगतास्तथा॥ १०॥
यद्यत्प्रत्यक्षविषयं तदन्यन्नास्ति चक्षते
कुतः स्वर्गादयः सन्तीत्यन्ये निश्चितमानसाः॥ ११॥
ज्ञानप्रवाह इत्यन्ये शून्यं केचित्परं विदुः
द्वावेव तत्त्वं मन्दन्तेऽपरे प्रकृतिपूरुषौ॥ १२॥
अत्यन्तभिन्नमतयः परमार्थपराङ्मुखाः
एवमन्ये तु संचिन्त्य यथामति यथाश्रुतम्॥ १३॥
निरीश्वरमिदं प्राहुः सेश्वरञ्च तथापरे
वदन्ति विविधैर्भेदैः सुयुक्त्या स्थितिकातराः॥ १४॥
एते चान्ये च मुनयः संज्ञाभेदा पॄथग्विधाः
शास्त्रेषु कथिता ह्येते लोकव्यामोहकारकाः॥ १५॥
एतद्विवादशीलानां मतं वक्तुं न शक्यते
भ्रमन्त्यस्मिञ्जनाः सर्वे मुक्तिमार्गबहिष्कृताः॥ १६॥
आलोक्य सर्वशास्त्राणि विचार्य च पुनः पुनः
इदमेकं सुनिष्पन्नं योगशास्त्रं परं मतम्॥१७॥
यस्मिन् याते सर्वमिदं यातं भवति निश्चितम्
तस्मिन्परिश्रमः कार्यः किमन्यच्छास्त्रभाषितम्॥१८॥
योगशास्त्रमिदं गोप्यमस्माभिः परिभाषितम्
सुभाक्ताय प्रदातव्यं त्रैलोक्ये च महात्मने॥ १९॥
कर्मकाण्डं ज्ञानकाण्डमिति वेदो द्विधा मतः
भवति द्विविधो भेदो ज्ञानकाण्डस्य कर्मणः॥ २०॥
द्विविधः कर्मकाण्डः स्यान्निषेधविधिपूर्वकः॥ २१॥
निषिद्धकर्मकरणे पापं भवति निश्चितम्
विधिना कर्मकरणे पुण्यं भवति निश्चितम्॥ २२॥
त्रिविधो विधिकूटः स्यान्नित्यनैमित्तकाम्यतः
नित्येऽकृते किल्बिषं स्यात्काम्ये नैमित्तिके फलम्॥ २३॥
द्विविधन्तु फलं ज्ञेयं स्वर्गो नरक एव च
स्वर्गो नानाविधश्चैव नरकोपि तथा भवेत्॥ २४॥
पुण्यकर्माणि वै स्वर्गो नरकः पापकर्माणि
कर्मबंधमयी सृष्टिर्नान्यथा भवति ध्रुवम्॥ २५॥
जन्तुभिश्चानुभूयंते स्वर्गे नानासुखानि च
नानाविधानि दुःखानि नरके दुःसहानि वै॥ २६॥
पापकर्मवशाद्दुःखं पुण्यकर्मवशात्सुखम्
तस्मात्सुखार्थी विविधं पुण्यं प्रकुरुते ध्रुवम्॥ २७॥
पापभोगावसाने तु पुनर्जन्म भवेत्खलु
पुण्यभोगावसाने तु नान्यथा भवति ध्रुवम्॥ २८॥
स्वर्गेऽपि दुःखसंभोगः परश्रीदर्शनादिषु
ततो दुःखमिदं सर्वं भवेन्नास्त्यत्र संशयः॥ २९॥
तत्कर्मकल्पकैः प्रोक्तं पुण्यं पापमिति द्विधा
पुण्यपापमयो बन्धो देहिनां भवति क्रमात्॥ ३०॥
इहामुत्र फलद्वेषी सफलं कर्म संत्यजेत्
नित्यनैमित्तिकं संज्ञं त्यक्त्वा योगे प्रवर्तते॥ ३१॥
कर्मकाण्डस्य माहात्म्यं ज्ञात्वा योगि त्यजेत्सुधीः
पुण्यपापद्वयं त्यक्त्वा ज्ञानकाण्डे प्रवर्तते॥ ३२॥
आत्मा वाऽरेतु द्रष्टव्यः श्रीतव्येत्यादि यच्छुतिः
सा सेव्या तत्प्रयत्नेन मुक्तिदा हेतुदायिनी॥ ३३॥
दुरितेषु च पुण्येषु यो धीर्वृत्तिं प्रचोदयात्
सोऽहं प्रवर्तते मत्तो जगत्सर्वं चराचरम्
सर्वं च दृश्यते मत्तः सर्वं च मयि लीयते
न तद्भिन्नोऽहमस्मीह मद्भिन्नो न तु किंचन॥ ३४॥
जलपूर्णेष्वसंख्येषु शरावेषु यथा भवेत्
एकस्य भात्यसंख्यत्वं तद्वेदोऽत्र न दृश्यते
उपाधिषु शरावेषु या संख्या वर्तते परा
सा सण्ख्या भवति यथा रथा रवौ चात्मनि तत्तथा॥ ३५॥
यथैकः कल्पकः स्वप्ने नानाविधितयेष्यते
जागरेपि तथाप्येकस्तथैव बहुधा जगत्॥ ३६॥
सर्पबुद्धिर्यथा रज्जौ शुक्तौ व रजतभ्रमः
तद्वदेवमिदं विश्वं विवृतं परमात्मनि॥ ३७॥
रज्जुज्ञानाद्यथा सर्पो मिथ्यारूपो निवर्तते
आत्मज्ञानात्तथा याति मिथ्याभूतमिदं जगत्॥ ३८॥
रौप्यभ्रान्तिरियं याति शुक्तिज्ञानाद्यथा खलु
जगद्भ्रान्तिरियं याति चात्मज्ञानात्सदा तथा॥ ३६॥
यथा वंशो रगभ्रान्तिर्भवेद्भेकवसाञ्जनात्
तथा जगदिदं भ्रांतिरभ्यासकल्पनाञ्जनात्॥ ४०॥
आत्मज्ञानाद्यथा नास्ति रज्जुज्ञानाद्भुजङ्गमः
यथा दोषवशाच्छुक्लः पीतो भवति नान्यथा
अज्ञानदोषादात्मापि जगद्भवति दुस्त्यजम् ॥ ४१॥
दोषनाशो यथा शुक्लो गृह्यते ऱ्एगिन स्वयम्
शुक्लज्ञानात्तथाऽज्ञाननाशादात्मा तथा कृतः॥ ४२॥
कालत्रयेपि न यथा रज्जुः सर्पो भवेदिति
तथत्मा न भवेद्विश्वं गुणातीतो निरञ्जनः॥ ४३॥
आगमाऽपायिनोऽनित्यानाश्यत्वेनेश्वरादयः
आत्मबोधेन केनापि शास्त्रादेतद्विनिश्चतम्॥ ४४॥
यथा वातवशात्सिन्धावुत्पन्नाः फेनबुद्बुदाः
तथात्मनि समुद्भूतं संसारं क्षणभंगुरम॥४५॥
अभेदो भासते नित्यं वस्तुभेदो न भासते
द्विधात्रिधादिभेदोऽयं भ्रमत्वे पर्यवस्यति॥ ४६॥
यद्भूतं यच्च भाव्यं वै मूर्तामूर्तं तथैव च
सर्वमेव जगदिदं विवृतं परमात्मनि॥ ४७।
कल्पकौः कल्पिता विद्या मिथ्या जाता मृषात्मिका
एतन्मूलं जगदिदं कथं सत्यं भविष्यति॥ ४८॥
चैतन्यात्सर्वमुत्पन्नं जगदेतच्चराचरम्
तस्मात्सर्वं परित्यज्य चैतन्यं तं समाश्रयेत्॥ ४९॥
घटस्याभ्यंतरे बाह्ये यथाकाशं प्रवर्तते
तथात्माभ्यंतरे बाह्ये कार्यवर्गेषु नित्यशः॥ ५०॥
असंलग्नं यथाकाशं मिथ्याभूतेषु पंचसु
असंलग्नस्तथात्मा तु कार्यवर्गेषु नान्यथा॥ ५१॥
ईश्वरादिजगत्सर्वमात्मव्याप्यं समन्ततः
कोऽस्ति सच्चिदानंदः पूर्णो द्वैतविवर्ज्जितः॥ ५२॥
यस्मात्प्रकाशको नास्ति स्वप्रकाशो भवेत्ततः
स्वप्रकाशो यतस्तस्मादात्मा ज्योतिः स्वरूपकः॥ ५३॥
अवछिन्नो यतो नास्ति देशकालस्वरूपतः
आत्मनः सर्वथा तस्मादात्मा पूर्णो भवेत्खलु॥५४॥
यस्मान्ना विद्यते नाशः पंचभूतैर्वृथात्मकैः
तस्मादात्मा भवेन्नित्यस्तन्नाशो न भवेत्खलु॥ ५५॥
यस्मात्तदन्यो नस्तीह तस्मादेकोऽस्ति सर्वदा
यस्मात्तदन्यो मिथ्या स्यादात्मा सत्यो भवेत् खलु॥ ५६॥
अविद्याभूतसंसारे दुःखनाशे सुखं यतः
ज्ञानादाद्यंतशून्यं स्यात्तस्मादात्मा भवेत्सुखम्॥ ५७॥
यस्मान्नाशितमज्ञानं ज्ञानेन विश्वकारणम्
तस्मादात्मा भवेज्ज्ञानं ज्ञानं तस्मात्सनातनम्॥ ५८॥
कालते विविधं विश्वं यदा चैव भवेदिदम्
तदेकोऽस्ति स एवात्मा कल्पनापथवर्जितः॥ ५९॥
बाह्यानि सर्वभूतानि विनाशं यन्त कालतः
यतो वाचो निवर्त्तंते आत्मा द्वैतविवर्जितः॥ ६०॥
न खं वायुर्न चाग्निश्च न जलं पृथिवी न च
नैतत्कार्यं नेश्वरादि पूर्णैकात्मा भवेत्खलु॥ ६१॥
आत्मानमात्मनो योगी पश्यत्यात्मनि निश्चितम्
षर्वसंकल्पसंयासी त्यक्तमिथ्याभवग्रहः॥ ६२॥
आत्मानात्मनि चात्मानं दृष्ट्वानन्तं सुखात्मकम्
विस्मृत्य विश्वं रमते समाधेस्तीव्रतस्तथा॥६३॥
मायैव विश्वजननी नान्या तत्त्वधियापरा
यदा नाशं समायाति विश्वं नास्ति तदा खलु॥ ६४॥
हेयं सर्वमिदं यस्य मायाविलसितं यतः
ततो न प्रीतिविषयस्तनुवित्तसुखात्मकः॥ ६५॥
अरिर्मित्रमुदासीनस्त्रिविधं स्यादिदं जगत्
व्यवहारेषु नियतं दृश्यते नान्यथा पुनः
प्रियाप्रियादिभेदस्तु वस्तुषु नियतः स्फुटम्॥ ६६॥
आत्मोपाधिवशादेवं भवेत्पुत्रादि नान्यथा
मायाविलसितं विश्वं ज्ञात्वैवं श्रुतियुक्तितः
अध्यारोपापवादाभ्यां लयं कुर्वन्ति योगिनः॥ ६७॥
निखिलोपाधिहीनो वै यदा भवति पूरुषः
तदा विवक्षतेऽखंडज्ञानरूपी निरंजनः॥ ६८॥
सो कामयतः पुरुषः सृजते च प्रजाः स्वयम्
अविद्या भासते यस्मात्तस्मान्मिथ्या स्वभावतः॥ ६९॥
शुद्ध ब्रह्मत्व संबद्धो विद्यया सहितो भवेत्
ब्रह्मतेनसती याति यत आभासते नभः॥ ७०॥
तस्मात्प्रकाशते वायुर्वायोरग्निस्ततो जलम्
प्रकाशते ततः पृथ्वी कल्पनेयं स्थिता सति॥ ७१॥
आकाशाद्वायुराकाशपवनादग्निसंभवः
खवाताग्नेर्जलं व्योमवाताग्निवारितो मही॥ ७२॥
खं शब्दलक्षणं वायुश्चंचलः स्पर्शलक्षणः
स्याद्रूपलक्षणं तेजः सलिलं रसलक्षणम्
गन्धलक्षणिका पृथ्वी नान्यथा भवति ध्रुवम्॥ ७३॥
स्यादेकगुणमाकाशं द्विगुणो वायुरुच्यते
तथैव त्रिगुणं तेजो भवन्त्यापश्चतुर्गुणाः
शब्दः स्पर्शश्च रूपं च रसो गन्धस्तथैव च
एतत्पंचगुणा पृथ्वी कल्पकैः कल्प्यतेऽधुना॥ ७४॥
चक्षुषा गृह्यते रूपं गन्धो ग्रनेन् गृह्यते
रमे रमनया स्पर्शस्त्वचा संगृह्यते परम्॥ ७५॥
श्रोत्रेण गृह्यते शब्दो नियतं बत् नान्यथा॥ ७६॥
चैतन्यात्सर्वमुत्पन्नं जगदेतच्चराचरम्
अस्ति चेत्कल्पनेयं स्यान्नास्ति चेदस्ति चिन्मयम्॥ ७७॥
पृथ्वी शीर्णा जले मग्ना जलं मग्नञ्च तेजसि
लीनं वायौ तथा तेजो व्योम्नि वातो लयं ययौ
अविद्यायां महाकाशो लीयते परमे पदे॥ ७८॥
विक्षेपावरणा शक्तिर्दुरन्तासुखरूपिणी
जडरूपा महामाया रजःसत्त्वतमोगुणा॥ ७९॥
सा मायावरणाशक्त्यावृताविज्ञानरूपिणी
दर्शयेज्जगुदाकारं तं विक्षेपस्वभावतः॥ ८०॥
तमो गुणाधिका विद्या या सा दुर्गा भवेत् स्वयम्
ईश्वरस्तदुपहितं चैतन्यं तदभूद्ध्रुवम्
सत्ताधिका च या विद्या लक्ष्मीः स्याद्दिव्यरूपिणी
चैतन्यं तदुपहितं विष्णुर्भवति नान्यथा॥ ८१॥
रजोगुणाधिका विद्या ज्ञेया सा वै सरस्वती
यश्चित्स्वरूपे भवति ब्रह्मातदुपधारकः॥ ८२॥
ईशाद्याः सकला देवा दृश्यन्ते परमात्मनि
शरिरादिजडं सर्वं सा विद्या तत्तथा तथा॥ ८३॥
एवंरूपेण कल्पन्ते कल्पका विश्वसम्भवम्
तत्त्वातत्त्वं भवंतीह कल्पनान्येन चोदिता॥ ८४॥
प्रमेयत्वादिरूपेण सर्वं वस्तु प्रकाश्यते
विशेषशब्दोपादाने भेदो भवति नान्यथा॥ ८५॥
तथैव वस्तुनास्त्येव भासको वर्तकः परः
स्वरूपत्वेन रूपेण स्वरूपं वस्तु भाष्यते॥ ८६॥
एकः सत्तापूरितानन्दरूपः
पूर्णो व्यापी वर्तते नास्ति किञ्चित्
एतज्ज्ञानं यः करोत्येव नित्यं मुक्तः
स स्यान्मृत्युसंसारदुःखात् ८७
यस्यारोपापवागगदाभ्यां यत्र सर्वे लयं गताः
स एको वर्तते नान्यत्तच्चित्तेनावधार्यते॥ ८८॥
पितुरन्नमयात्कोशाज्जायते पुर्वकर्मणः
तच्छरिरंविदुःखं स्वप्राग्भोगाय सुन्दरम्॥ ८९॥
मांसास्थिस्नायुमज्जादिनिर्मितं भोगमन्दिरम्
केवलं दुःखभोगाय नाडी संततिगुल्फितम्॥ ९०॥
पारमेष्ठ्यमिदं गात्रं पंचभूतविनिर्मितम्
ब्रह्माण्डसंज्ञकं दुःखसुखभोगाय कल्पितम्॥ ९१॥
बिन्दुः शिवो रजः शक्तिरुभयोर्मिलनात्स्वयम्
स्वप्नभूतानि जायन्ते स्वशक्त्या जडरूपया॥ ९२॥
तत्पञ्चीकरणात्स्थूलान्यसंक्यानि समासतः
ब्रमांडस्थानि वस्तूनि यत्र जीवोऽस्ति कर्मभिः
तद्भूतपञ्चकात्सर्वं भोगाय जीवसंज्ञिता॥ ९३॥
पूर्वकर्मानुरोधेन करोमि घटनामहम्
अजडः सर्वभूतस्था जडस्थित्या भुनक्ति तान्॥ ९४॥
जडात्स्वकर्मभिर्बद्धो जीवाख्यो विविधो भवेत्
भोगायोत्पद्यते कर्म ब्रह्मांडाख्ये पुनः पिनः॥ ९५॥
जीवश्च लियते भोगावसाते च स्वकर्मणः॥९६॥
॥ इति श्रीशिवसंहितायां हरगौरिसंवादे।
प्रथमः पटलः समाप्तः। श्रीशिवार्पणमस्तु॥
ओं शान्तिश्शान्तिश्शान्तिः॥