

॥ श्री शिवसंहिता॥
॥ द्वितीयः पटलः॥
देहोऽस्मिन्वर्तते मेरुः सप्तद्वीपसमन्वितः
सरितः सागाराः शैलाः क्षेत्राणि क्षेत्रपाल काः॥ १॥
ऋषयो मुनयः सर्वे नक्षत्राणि ग्रहास्तथा
पुण्यतीर्थानि पीठानि वर्तन्ते पीठदेवताः॥ २॥
सृष्टिसंहारकर्तारौ भ्रमन्तौ शशिभास्करौ
नभो वायुश्च वन्दिहश्च जलं पृथ्वी तथैव च॥ ३॥
त्रैलोक्ये यानि भूतानि तानि सर्वाणि देहतः
मेरुं संवेष्ग्ट्य सर्वत्र व्यवहारः प्रवर्तते॥ ४॥
जानाति यः सर्वमिदं स योगी नात्र संशयः॥ ५॥
ब्रह्माण्डसंज्ञके देहे यथादेशं व्यवस्थितः
म्रुशृङ्गे सुधारश्मिर्बहिरष्टकलायुतः॥ ६॥
वर्ततेऽहर्निशं सोऽपि सुधां वर्षत्यधोमुखः
ततोऽमृतं द्विधाभूतं याति सूक्ष्मं यथा च वै॥ ७॥
इडामार्गेण पुष्ट्यर्थं याति मन्दाकिनीजलम्
पुष्णाति सकलं देहमिडामार्गेण निश्चितम्॥ ८॥
एष पीयूषरश्मिर्हि वामपार्श्चे व्यवस्थितः
अपरः शुद्धदुग्धाभो हठात्कर्षति मण्डलात्
मध्यमार्गेण सृष्ट्यर्थं मेरौ संयाति चन्द्रमाः॥९॥
मेरुमूले स्थितः सूर्यः कलाद्वादशसंयुतः
दक्षिणे पथि रश्मिभिर्वहत्यूर्ध्वं प्रजापतिः॥ १०॥
पीयूषरश्मिनिर्यासं धातूंश्च ग्रसति ध्रुवम्
समीरमण्डले सूर्यो भ्रमते सर्वविग्रहे॥ ११॥
एषा सूर्यपरामूर्तिः निर्वाणं दक्षिणे पथि
वहते लग्नयोगेन सृष्टिसंहारकारकः॥ १२॥
सार्धलक्षत्रयं नाड्यः सन्ति देहान्तरे नृणाम्
प्रधानभूता नाड्यस्तु तासु मूख्याश्चतुर्दशः॥ १३॥
सुषुम्णेडा पिंगला च गांधारी हस्तिजिह्विका
कुहूः सरस्वती पूषा शंखिनी च पयस्वनी॥ १४॥
वारुण्यलम्बुसा चैव विश्वोदरी यशस्विनी
एतासु तिस्रो मुख्याः स्युः पिङ्गलेडा सुषुम्णिका॥ १५॥
तिसृष्वेका सुषुम्णैव मुख्या सायोगिवल्लभा
अन्यास्तदाश्रयं कृत्वा नाड्यः सन्ति हि देहिनाम्॥ १६॥
नाड्यस्तु ता आधोवक्त्राः पद्मतन्तुनिभाः स्थिताः
पृष्ठवंशं समाश्रित्य सोमसुर्याग्निरूपिणी॥१७॥
तासां मध्ये गता नाडी चित्रा सा मम वल्लभा
ब्रह्मरन्ध्रञ्च तत्रैव सूक्ष्मात्सूक्ष्मतरं शुभम् ॥१८॥
पञ्चवर्णोज्ज्वला शुद्धा सुषुम्णा मध्यचारिणी
देहस्योपाधिरूपा सा सुषुम्णा मध्यरूपिणी॥ १९॥
दिव्यमार्गमिदं प्रोक्तममृतानन्दकारकम्
ध्यानमात्रेण योगींद्रो दुरितौघं विनाशयेत्॥ २०॥
गुदात्तुद्व्यंगुलादूर्ध्वं मेढात्तु द्व्यंगुलादधः
चतुरंगगुलविस्तारमाधारं वर्तते समम्॥२१॥
तस्मिन्नाधारपद्मे च कर्णिकायां सुशोभना
त्रिकोणा वर्त्तते योनिः सर्वतंत्रेषु गोपिता॥ २२॥
तत्र विद्युल्लताकारा कुण्डली परदेवता
सार्द्धत्रिकरा कुटिला सुषुम्णा मार्गसंस्थिता॥ २३॥
जगत्संसृष्टिरूपा सा निर्माणे सततोद्यता
वाचामवाच्या वाग्देवी सदा देवैर्नमस्कृता॥ २४॥
इडानाग्नी तु या नाडी वाममार्गे व्यवस्थिता
सुषुम्णायां समाश्लिष्य दक्षनासापुटे गता॥२५॥
पिङ्गला नाम या नाडी दक्षमार्गे व्यवस्थिता
मध्यनाडीं समाश्लिष्य वामनासापुटे गता॥२६॥
इडापिंगलयोर्मध्ये सुषुम्णा या भवेत्खलु
षट्स्थानेषु च षट्शक्तिं षट्पद्मं योगिनो विदुः॥ २७॥
अंचस्थानं सुषुम्णाया नामानि स्युर्बहूनि च
प्रयोजनवशात्तानि ज्ञातव्यानीह शास्त्रतः॥ २८॥
अन्या याऽस्त्यपरा नाडी मूलाधारात्समुत्थिता
रसनामेढ्रनयनं पादांगुष्ःठे च श्रोत्रकम्
कुक्षिकक्षांगुष्ठकर्णं सर्वांगं पायुकुक्षिकम्
लब्ध्वा तां वै निवर्तन्ते यथादेशसमुद्भवाः॥ २९॥
एताभ्य एव नाडीभ्यः शाखोपशाखतः क्रमात्
सार्धलक्षत्रयं जातं यथाभागं व्यवस्थितम्॥३०॥
एता भोगवहा नाड्यो वायुसञ्चारदक्षकाः
ओतप्रोताः सुसंव्याप्य तिष्ठन्त्यस्मिन्कलेवरे॥ ३१॥
सूर्यमण्डलमध्यस्थः कलाद्वदशसंयुतः
वस्तिदेशे ज्वलद्वह्निर्वर्तते चान्नपाचकः
एष वैश्वानरोग्निर्वै मम तेजोंशसम्भवः
करोति विविधं पाकं प्राणिनां देहमास्थितः॥ ३२॥
आयुः प्रदायको वह्निर्बलं पुष्टिं ददाति सः
शरीरपाटवञ्चापि ध्वस्तरोगसमुद्भवः॥ ३३॥
तस्माद्वैश्वानराग्निञ्च प्रज्वाल्य विधिवत्सुधीः
तस्मिन्नन्नं हुनेद्योगी प्रत्यहं गुरुशिक्षया॥ ३४॥
ब्रह्माण्डसंज्ञके देहे स्थानानि स्युर्बहूनि च
मयोक्तानि प्रधानानि ज्ञातव्यानीह शास्त्रके॥ ३५॥
नानाप्रकारनामानि स्थानानि विविधानि च
वर्तन्ते विग्रहे तान कथितुं नैव शक्यते॥ ३६॥
इत्थं प्रकल्पिते देहे जीवो वसति सर्व्वगः
अनादिवासनामालाऽलंकृतः कर्मशंखलः॥ ३७॥
नानाविधगुणेपेतः सर्वव्यापारकारकः
पूर्वार्जितानि कर्माणि भुनक्ति विविधानि च॥ ३८॥
यद्यत्संदृश्यते लोके सर्वं तत्कर्मसम्भवम्
सर्वा कर्मानुसारेण जन्तुर्भोगान्भुनक्ति वै॥ ३९॥
ये ये कामादयो दोषाः सुखदुःखप्रदायकाः
ते ते सर्वे प्रवर्तन्ते जिवकर्मानुसारतः॥ ४०॥
पुण्योपरक्तचैतन्ये प्राणान्प्रीणाति केवलम्
बाह्ये पुण्यमयं प्राप्य भोज्यवस्तु स्वयम्भवेत्॥ ४१॥
ततः कर्मबलात्पुंसः सुखं वा दुःखमेव च
पापोपरक्तचैतन्यं बैव तिष्ठति निश्चितम्
न तद्भन्नो भवेत्सोऽपि तद्भन्नो न तु किञ्चन
मायोपहितचैतन्यात्सर्वं वस्तु प्रजायते॥ ४२॥
यथाकालेपि भोगाय जन्तूनां विविधोद्भवः
यथा दोषवशाच्छुक्तौ रजतारोपणं भवेत्
तथा स्वकर्मदोषाद्वै ब्रह्मण्यारोप्यते जगत्॥ ४३॥
सवासनाभ्रमोत्पन्नोन्मूलनतिसमर्थनम्
उत्पन्नञ्चेदीदृशं स्याज्ज्ञानं मोक्षप्रसाधनम्॥ ४४॥
साक्षाद्वैशेषदृष्टिस्तु साक्षात्कारिणि विभ्रमे
कारणं नान्यथा युक्त्या सत्यं सत्यं मयोदितम्॥ ४५॥
साक्षात्कारिभ्रमे साक्षात्साक्षात्कारिणि नाशयेत्
सो हि नास्तीति संसारे भ्रमो नैव निवर्तते॥ ४६॥
मिध्याज्ञाननिवृत्तिस्तु विशेषदर्शनाद्भवेत्
अन्यथा न निवृत्तिः स्याद्दृश्यते रजतभ्रमः॥ ४७॥
यावन्नोत्पद्यते ज्ञानं साक्षात्कारे निरञ्जने
तावत्सर्वाणि भूतानि दृश्यन्ते विविधानि च॥ ४८॥
यदा कर्मार्जितं देहं निर्वाणे साधनं भवेत्
तदा शरीरवहनं सफलं स्यान्न चान्यथा॥ ४९॥
यादृशी वासना मूला वर्त्तते जिवसंगिनी
तदृशं वहते जन्तुः कृत्याकृत्यविधौ भ्रमम्॥ ५०॥
संसारसागरं तर्त्तुं यदीच्छेद्योगसाधकः
कृत्वा वर्णाश्रमं कर्म फलवर्जं तदाचरेत्॥ ५१॥
विषयासक्तपुरुषा विषयेषु सुखेप्सवः
वाचाभिरुद्धनिर्वाणा वर्तन्ते पापकर्मणि॥ ५२॥
आत्मानमात्मना पैसन किञ्चिदिह पश्यति
तदा कर्मरित्यागे न दोषोऽस्ति मतं मम॥ ५३॥
कामादयो विलीयन्ते ज्ञानादेव न चान्यथा
अभावे सर्वतत्त्वानां स्वयं तत्त्वं प्रकाशते॥ ५४॥
इति श्रीशिवसंहितायां हरगौरिसंवादे। द्वितीयः पटलः समाप्तः॥
॥ श्रीशिवार्पणमस्तु॥
ओं शान्तिश्शान्तिश्शान्तिः॥