

॥ श्री शिवसंहिता॥
॥ तृतीयः पटलः॥
हृद्यस्ति पङ्कजं दिव्यं दिव्यलिङ्गेन भूषितम्
कादिठान्ताक्षरोपेतं द्वादशार्णविभूषितम्॥ १॥
प्राणो वसति तत्रैव वासनाभिरलकृतः
अनादिकर्मसंश्लिष्टः प्राप्याहङारसंयुतः॥ २॥
प्राणस्य वृत्तिभेदेन ममन् विविधानि च
वर्तन्ते तानि सर्वाणि कथितुं नैव शक्यते॥ ३॥
प्राणोऽपानः समानश्चोदनो व्यानश्च पञ्चमः
नागः कूर्मश्च कृकरो देवदत्तो धनञ्जयः॥ ४॥
दश ममनि मुख्यानि मयोक्तानीह शास्त्रके
कुर्वन्ति तेऽत्र कार्याणि प्रेरितानि स्वकर्मभिः॥ ५॥
अत्रापि वायवः पञ्च मुख्याः स्युर्दशतः पुनः
तत्रापि श्रेष्ठकर्त्तारौ प्राणापानौ मयोदितौ॥ ६॥
हृदि प्राणो गुदेऽपानः समानो नाभिमण्डले
उदानः कण्ठदेशस्थो व्यानः सर्वशरीरगः॥ ७॥
नागादिवायवः पज़्न्च ते कुर्वन्ति च विग्रहे
उद्गारोन्मीलनं क्षुत्तृड्जम्भा हिक्का च पञ्चमः॥ ८॥
अनेन विधिना यो वै ब्रह्माडं वेत्ति विग्रहम्
सर्वपापविनिर्मुक्तः स याति परमां गतिम्॥ ९॥
अधुना कथयिष्यामि क्षिप्रं योगस्य सिद्धये
यज्ज्ञात्वा नावसीदन्ति योगिनो योगसाधने॥ १०॥
भवेद्वीर्यवती विद्या गुरुवक्त्रसमुद्भवा
अन्यथा फलहीना स्यान्निर्वीर्याप्यतिदुःखदा॥ ११॥
गुरुं सन्तोप्य यत्नेन ये वै विद्यामुपासते
अवलम्बेन विद्यायास्तस्याः फलमवाप्नुयात्॥ १२॥
गुरुः पिता गुरुर्माता गुरुर्देवो न असंशयः
कर्मज़ मनसा वाचा तस्मात्सर्वैः प्रसेव्यते॥ १३॥
गुरुप्रसादतः सर्वं लभ्यते शुभमात्मनः
तस्मात्सेव्यो गुरुर्नित्यमन्यथा न शुभं भवेत्॥१४॥
प्रदक्षिणत्रयं कृत्वा स्पृष्ट्वा सव्येन पाणिना
अष्टांगेन नमस्कुर्याद्गुरुपादसरोरुहम्॥ १५॥
श्रद्धयार्मवतां पुंसां सिद्धिर्भवति निश्चिता
अन्येषाज़्न्च न सिद्धिः स्यात्तस्माद्यत्नेन साधयेत्॥ १६॥
न भवेत्संगयुक्तानां तथाऽविश्वासिनामपि
गुरुपूजाविहीनानां तथा च बहुसंगिनाम्
मिथ्यावादरतानां च तथा निष्ठुरभाषिणाम्
गुरुसन्तेषहीनानां न सिद्धिः स्यात्कदाचन॥ १७॥
फलिष्यतीति विश्वासः सिद्धेः प्रथमलक्षणं
द्वितीयं श्रद्धया युक्तं तृतीयं गुरुपूजनम्
चतुर्थं समताभावं पञ्चमेन्द्रियनिग्रहम्
षठं च प्रमिताहारं सप्तमं नैव विद्यते॥१८॥
योगोपदेशं संप्राप्य लब्ध्वा योगविदं गुरुम्
गुरूपदिष्टविधिना धिया निश्चत्य साधयेत्॥ १९॥
सुशोभने मठे योगी पद्मासनसमन्वितः
आसनोपरि संविश्य पवनाभ्यासमाचरेत्॥ २०॥
समकायः प्राञ्जलिश्च प्रणम्य च गुरून् सुधीः
दक्षे वामे च विघ्नेशं क्षत्रपालंबिकां पुनः॥ २१॥
ततश्च दक्षांगुष्ठेन निरुद्ध्य पिंगलां सुधीः
इदज़ पूरयेद्वायुं यथाशक्त्या तु कुम्भयेत्
ततस्त्यक्त्वा पिंगलयाशनैरेव न वेगतः॥ २२॥
पुनः पिंगलयाऽऽपूर्य यथाश्क्त्या तु कुम्भयेत्
इदया रेचयेद्वायुं न वेगेत शनैःशनौः॥ २३॥
इदं योगविधानेन कुर्याद्विंशतिकुम्भकान्
सर्वद्वन्द्वविनिर्मुक्तः प्रत्यहं विगतालसः॥ २४॥
प्रतःकाले च मध्याह्ने सूर्यास्ते चार्द्धरात्रके
कुर्यादेवं चतुर्वारं कालेष्वेतेषु कुम्भकान्॥ २५॥
इत्थं मासत्रयं कुर्यादनालस्यो दिने दिने
ततो नाडीविशुद्धिः स्यादविलम्बेन निश्चितम्॥ २६॥
यदा तु नाडीशुद्धिः स्याद्योगिनस्तत्त्वदर्शिनः
तदा विध्वस्तदेषश्च भवेदारम्भसम्भवः॥ २७॥
चिह्नानि योगिनो देहे दृश्यन्ते नाडिशुद्धितः
कथ्यन्ते तु समस्तान्यङ्गानि संक्षेपते मया॥ २८॥
समकायः सुगन्धिश्च सुकान्तिः स्वरसाधकः
आरम्भघटकश्चैव यथा परिचयस्तदा
निष्पत्तिः सर्वयोगेषु योगावस्था भवन्ति ताः॥ २९॥
आरम्भघटकश्चैव यथा परिचयस्तदा
निष्पत्तिः सर्वयोगेषु योगावस्था भवन्ति ताः॥ २९॥
आरम्भः कथितोऽस्माभिरधुना वायुसिद्धये
अपरः कथ्यते पञ्चात्सर्वदुःखौघनाशनः॥ ३०॥
प्रौढवह्निः सुभोगी च सुखीसर्वाङ्गिसुब्दरः
संपूर्णहृदयो योगि सर्वोत्साहबलान्वितः
जायते योगिनोऽवश्यमेतत्सर्वं कलेवरे॥ ३१॥
अथ वर्ज्यं प्रवक्ष्यामि योगविघ्नकरं परम्
येन संसारदुःखाब्धिं तीर्त्वा यास्यन्ति योगिन॥ ३२॥
आम्लं रूक्षं तथा तीक्ष्णं लवणण् सार्षपं कटुम्
बहुलं भ्रमणं प्रातः स्नानं तैलविदाहकम्
स्तेयं हिंसां जनद्वेषञ्चहङ्कारमनार्जवम्
उपवासमसत्यञ्च मोक्षञ्च प्राणिपीडनम्।
स्त्रीसङ्गमग्निसेवां च बह्वालापं प्रियाप्रियम्।
अतीव भोजनं योगि त्यजेदेतानि निश्चितम्॥ ३३॥
उपायं च प्रवक्ष्यामि क्षिप्रं योगस्य सिद्धये
गोपनीयं साधकानां येन सिद्धिर्भवेत्खलु॥ ३४॥
घृतं क्षीरं च मिष्टान्नं ताम्बूलं चूर्णवर्जितम्
कर्पूरं निष्तुषं मिष्टं सुमठं सुक्ष्मरन्ध्रकम्
सिद्धान्तश्रवणं नित्यं वैराग्यगृहसेवनम्
नामसङ्कीर्तनं विष्णोः सुनादश्रवणं परम्
धृतिः क्षमा तपः शौचं हीर्मतिर्गुरुसेवनम्
सदैतानि परं योगी नियमानि समाचरेत्॥ ३५॥
अनिलेऽर्केप्रवेशे च भोक्तव्यं योगिभिः सदा
वायौ प्रविष्टे शशिनि शयनं साधकोत्तमैः॥ ३६॥
सद्यो भुक्तेऽपि क्षुधिते नाभ्यासः क्रियते बुधैः
अभ्यासकाले प्रथमं कुर्यात्क्षीराज्यभोजनम्॥ ३७॥
ततोऽभ्यासे स्थिरीभूते न तादृड्नियमग्रहः
अभ्यासिना विभोक्तव्यं स्तोकं स्तोकमनेकधा
पुर्वोक्तकाले कुर्यात्तु कुम्भकान्प्रतिवासरे॥ ३८॥
ततो यथेष्टा शक्तिः स्याद्योगिनो वायुधारणे
यथेष्टं धारणाद्वायोः कुम्भकः सिध्यति द्रुवम्
केवले कुम्भके सिद्धे किं न स्यादिह योगिनः॥ ३९॥
स्वेदः संजायते देहे योगिनः प्रथमोद्यमे
यदा संजायते स्वेदो मर्दनं कारयेत्सुधीः
अन्यथा विग्रहे धातुर्नष्टो भवति योगिनः॥ ४०॥
द्वितीये हि भवेत्कम्पो दार्दुरी मध्यमे मता
ततोऽधिकतराभ्यसाद्ग्गनेचरसाधकः॥ ४१॥
योगी पद्मासनस्थोऽपि भुवमुत्सृज्य वर्तते
वयुसिद्धिस्तदा ज्ञेया संसारध्वान्तनाशिनी॥ ४२॥
तावत्कालं प्रकुर्वीत योगोत्कनियमग्रहम्
अल्पनिद्रा पुरीषं च स्तोकं मुत्रं च जायते॥ ४३॥
स्वेदो लाला कृमिश्चैव सर्वथैव न जायते॥ ४४॥
कफपित्तानिलश्चैव साधकस्य कलेवरे
तस्मिन्काले साधकस्य भोज्येष्वनियमग्रहः॥ ४५॥
अत्यल्पं बहुधा भुक्वा योगी न व्यथते हि सः
अथाभ्यासवशाद्योगी भूचरीं सिद्धिमाप्नेयात्
यथादर्दुरजन्तूनां गतिः स्यात्पाणिताडनात्॥ ४६॥
सन्त्यत्र बहवो विध्ना दारुणा दुर्निवारणाः
तथापि साधयेद्योगी प्राणैः कंठगतैरपि॥ ४७॥
ततो रहस्युपाविष्टः साधकः संयतेन्द्रियः
प्रणवं प्रजपेद्दीर्घं विघ्नानां नाशहेतवे॥ ४८॥
पूर्वार्जितानि कर्माणि प्राणायामेन निश्चितम्
नाशयेत्साधको धीमानिहलोकोद्भवानि च॥ ४९॥
पूर्वाजितानि पापानि पुण्यानि विविधानि च
नाशयेत्षोडशप्राणायामेन योगि पुंगवः॥ ५०॥
पापतूलचयानाहोप्रदहेत्प्रलयाग्निना
ततः पापविनिर्मुक्तः पश्चात्पुण्यानि नाशयेत्॥ ५१॥
प्राणायामेन योगीन्द्रो लब्ध्वैश्चर्याष्टकानि वै
पापपुण्योदधिं तीर्त्वा त्रैलोक्यचरतामियात्॥ ५२॥
ततोऽभ्यासक्रमेणैव घटिकात्रितयं भवेत्
येन स्यात्सकलासिद्धियोगिनः स्वेप्सिता ध्रुवम्॥ ५३॥
वाक्सिद्धिः कामचारित्वं दूरदृष्टिस्तथैव च
दूरश्रुतिः सूक्ष्ःमदृष्टिः ह्परकायप्रवेशनम्
विण्मूत्रलोपने स्वर्णमदृश्यकरणं तथा
भवन्त्येतानि सर्वाणि खेचरत्वं च योगिनाम्॥ ५४॥
यदा भवेद्धतावस्था पवनाभ्यासने परा
तदां स।सारचक्रेऽस्मिन्नास्ति यन्न सधारयेत्॥ ५५॥
प्राणापाननादबिंदुजीवात्मपरामात्मनः
मिलित्वा घटते यस्मात्तस्माद्वै घट उच्यते॥ ५६॥
याममात्रं यदा धर्त्तुं समर्थः स्यात्तदाद्भुतः
प्रत्याहारस्तदैव स्यान्नांतरा भवति ध्रुवम्॥ ५७॥
यं यं जानाति योगीन्द्रस्तं तमात्मेति भावयेत्
यैरिन्द्रियैर्यद्विधानस्तदिन्द्रियजयो भवेत्॥ ५८॥
याममात्रं यदा पूर्णं भवेदभ्यासयोगतः
एकवारं प्रकुर्वीत तदा योगि च कुम्भकम्
दण्डाष्टकं यदा वायुर्निश्चलो योगिनो भवेत्
स्वसामर्थ्यात्तदांगुष्ठे तिष्ठेद्वातुलबत्सुधीः॥ ५९॥
ततः परिचयावस्था योगिनोऽभ्यासतो भवेत्
यदा वयुश्चंद्रसूर्यं त्यक्त्वा तिष्ठति निश्चलम्
वायुः परिचितो वायुः सुषुम्ना व्योम्नि संचरेत्॥ ६०॥
क्रियाशक्तिं गृहीत्वैव चक्रान्भित्त्वा सुनिश्चितम्
यदा परिचयावस्था भवेदभ्यासयोगतः
त्रिकूटं कर्मणां योगी तदा पश्यति निश्चितम्॥ ६१॥
ततश्च कर्मकूटानि प्रणवेन विनाश्येत्
स योगी कर्मभोगाय कायव्यूहं समाचरेत्॥ ६२॥
अस्मिन्काले महायोगी पंचधा धारणं चरेत्
येन भूरादिसिद्धिः स्यात्ततो भूतभयापहा॥ ६३॥
आधारे घटिकाः पंच लिंगस्थाने तथैव च
तदूर्ध्वं घटिकाः पञ्च नाभिहृन्मध्यके तथा
भ्रूमध्योर्ध्वं तथा पंच घटिका धारयेत्सुधिः
तथा भूरादिना नष्टो योगिन्द्रो न भवेत्खलु॥ ६४॥
मेघावी सर्वभूतानां धारणां यः समध्यसेत्
श्तब्रह्ममॄतेनापि मृत्युस्तस्य न विद्यते॥ ६५॥
ततोऽभ्यासक्रमेणैव निष्पत्तिर्योगिनो भवेत्
अनादिकर्मबीजानि येन तिर्त्वाऽमृतं पिबेत्॥ ६६॥
यदा निष्पत्तिर्भवति समाधेः स्वेनकर्मणा
जिवन्मुक्तस्य शांतस्य भवेद्धीरस्य योगिनः
यदा निष्पत्तिसंपन्नः समाधिः स्वेच्छ्या भवेत्
गृहीत्वा चेतनं वायुः क्रियाशक्तिं च वेगवान्
सर्वांश्चक्रान्विजित्वा च ज्ञानश्क्तौ विलीयते॥ ६७॥
इदानीं क्लेशहान्यर्थं वक्तव्यं वायुसाधनम्
येन संसारचक्रेस्मिन्भोगहानिर्भवेद्ध्रुवम्॥ ६८॥
रसनां तालुमूले यः स्थापयित्वा विचक्षणः
पिबेत्प्राणानिलम् तस्य योगानां संक्षयो भवेत्॥ ६९॥
काकचंच्वा पिबेद्वायुं शीतलं यो विचक्षणः
प्राणापानविधानक्षः स भवेन्मुक्तिभाजनः॥ ७०॥
सरसं यः पिबेद्वायुं प्रक्त्यहं विधिना सुधीः
नश्यंति योगिनस्तस्त्य श्रमदाहजरामयाः॥ ७१॥
रमनामूर्ध्वगां कृत्वा यश्चन्द्रे सलिलं पिबेत्
मासमात्रेण योगिन्द्रो मृत्युं जयति निश्चितम्॥ ७२॥
राजदंतबिलं गाढं संपीड्य विधिना पिबेत्
ध्यात्वा कुण्डलिनीं देवीं षण्मासेन कविर्भवेत्॥ ७३॥
काकचंच्वा पिबेद्वायुं सन्ध्ययोरुभयोरपि
कुण्डलिन्या मुखे ध्यात्वा क्षयरोगस्य शान्तये॥ ७४॥
अहर्निशं पिबेद्योगी काकचंच्वा विचक्षणः
पिबेत्प्राणानिलं तस्य रोगाणां संक्षयो भवेत्
दूरश्रूतिर्दूरदृष्टिस्तथा स्याद्दर्शनं खलु॥ ७५॥
दन्तैर्दन्तान्समापीड्य पिबेद्वायुं शनैः शनैः
ऊर्ध्वजिह्वः सुमेधावी मृत्युं जयति सोचिरात्॥ ७६॥
षण्मासमात्रभ्यासं यः करोति दिने दिने
सर्वपापविनिर्मुक्तो रोगान्नाशयते हि सः॥ ७७॥
संवत्सरकृताऽभ्यासाद्भैरवो भवति ध्रुवम्
अणिमादिगुणाँल्लब्ध्वा जितभूततगणः स्वयम्॥ ७८॥
रसनामूर्ध्वगां कृत्वा क्षणार्धं यदि तिष्ठति
क्षणेन मुच्यते योगी व्याधिमृत्युजरादिभिः॥ ७९॥
रसनां प्राणसंयुक्तां पीड्यमानां विचिंतयेत्
न तस्य जायते मृत्युः सत्यं सत्यं मयोदितम्॥ ८०॥
एवमभ्यासयोगेन कामदेवो द्वितीयकः
न क्षुधा न तृषा निद्रा नैव मूर्च्छा प्रजायते॥ ८१॥
अनेनैव विधानेन योगीन्द्रोऽवनिमण्डले
भवेत्स्वच्छन्दचारी च सर्वापत्परिवर्जितः॥ ८२॥
न तस्य पिनरावृत्तिर्मोदते ससुरैरपि
पुण्यपायैर्न लिप्येत एतदाचरणेन सः॥ ८३॥
चतुरशीत्यासनानि सन्ति नानाविधानि च
तेभ्यश्चतुष्कमादाय मयोकानि ब्रवीम्यहम्
सिद्धासनं ततः पद्मासनञ्चोग्रं च स्वस्तिकम्॥ ८४॥
योनिं संपीड्य यत्नेन पादमूलेन साधकः
मेढोपरि पादमूलं विन्यसेद्योगवित्सदा
ऊर्ध्वं निरीक्ष्य भ्रूमध्यं निश्चलः संयतेन्द्रियः
विशेषोऽवक्रकायश्च रहस्युद्वेगवर्जितः
एतत्सद्धासनं ज्ञेयं सिद्धानां सिद्धिदायकम्॥ ८५॥
येनाभ्यासवशाच्छीघ्रं योगनिष्पत्तिमाप्नुयात्
सिद्धासनं सदा सेव्यं पवनाभ्यासिना परम्॥ ८६॥
येन संसारमुत्सृज्य लभते परमां गतिं
नातः परतरं गुह्यमासनं विद्यते भुवि
तेनानुध्यानमात्रेण योगी पापाद्विमुच्यते॥ ८७॥
उत्तानौ चरणौ कृत्वा ऊरुसंस्थौ प्रयत्नतः
ऊरुमध्ये तथोत्तानौ पाणी कृत्वा तु तादृशौ
नासाग्रे विन्यसेद्दृष्टिं दन्तमूलञ्च जिह्वया
उत्तोल्य चिबुकं वक्ष उत्थाप्य पवनं शनैः
यथाशक्त्या समाकृष्य पूरयेदुदरं शनैः
यथा श्क्त्यैव पश्चात्तु रेचयेदविरोधतः
इदं पद्मासनं प्रोक्तं सर्वव्याधिविनाशनम्॥ ८८॥
दुर्लभं येन केनापि धीमता लभ्यते परम्॥ ८९॥
अनुष्टाने कृते प्राणः समश्चलति तत्क्षणात्
भवेदभ्यासने सम्यक्साधकस्य न संशयः॥ ९०॥
पद्मासने स्थितो योगी प्राणापानविधानतः
पूरयेत्स विमुक्तः स्यात्सत्यं सत्यं वदाम्यहम्॥ ९१॥
प्रसार्य चरणद्वन्द्वं परस्परमसंयुतम्
स्वपाणिभ्यां दृढं धृत्वा जानूपरि शिरो न्यसेत्
आसनोग्रमिदं प्रोक्तं भवेदनिलदीपनम्
देहावसानहरणं पश्चिमोत्तानसंज्ञकम्
य एतदासनं श्रेष्ठं प्रत्यहं साधयेत्सुधीः
वायुः पश्चिममार्गेण तस्य सञ्चरति ध्रुवम्॥ ९२॥
एतभ्यासशीलानां सवसिद्धिः प्रजायते
तस्माद्योगी प्रयत्नेन साधयेत्सिद्धमात्मनः॥ ९३॥
गोपनीयं प्रयत्नेन न देयं यस्य कस्यचित्
येन शीग्रं मरुत्सिद्धिर्भवेद् दुःखौघनाशिनी॥९४॥
जानूर्वोरन्तरे सम्यग्धृत्वा पादतले उभे
समकायः सुखासीनः स्वस्तिकं तत्प्रचक्षते॥ ९५॥
अनेन विधिना योगी मारुतं साधयेत्सुधीः
देहे न क्रमते व्याधिस्तस्य वायुश्च सिद्ध्यति॥ ९६॥
सुखासनमिदं प्रोक्तं सर्वदुःखप्रणाशनम्
स्वस्तिकं योगिभिर्गोप्यं स्वस्तीकरणमुत्तमम्॥ ९७॥
इति श्रीशिवसंहितायां हरगौरिसंवादे॥
तृतीयः पटलः समाप्तः। श्रीशिवार्पणमस्तु॥
ओं शान्तिश्शान्तिश्शान्तिः॥