

॥ श्री शिवसंहिता॥
॥ चतुर्थः पटलः॥
आदौ पूरक योगेन स्वधारे पूरयेन्मनः
गुदमेढ्रन्तरे योनिस्तामाकुंच्य प्रवर्तते॥ १॥
ब्रह्मयोनिगतं ध्यात्वा कामं कन्दुकसन्निभम्
सूर्य्यकोटि प्रतीकाशं चन्द्रकोटिशुशीतलम्
तस्योर्ध्वं तु शिखासूक्ष्मा चिद्रूपा परमाकला
तया सहितमात्मानमेकीभूतं विचिन्तयेत्॥ २॥
गच्छति ब्रह्मार्गेण लिंगत्रय क्रमेण वै
अमृतं तद्धि स्वर्गस्थं परमानन्दलक्षणम्
श्वेतरक्तं तेजसाढ्यं सुधाधाराप्रवर्षिणम्
पीत्वा कुलामृतं दिव्यं पुनरेव विशेत्कुलम्॥ ३॥
पुनरेव कुलं गच्छेन्मात्रायोगेन नान्यथा
सा च प्राणसमाख्याता ह्यस्मिंस्तन्त्रे मयदित॥ ४॥
पुनः प्रलीयते तस्यां कालाग्यादिशिवात्मकम्
योनिमुद्रा परा ह्येषा बन्धस्तस्याः प्रकीर्तितः
तस्यास्तु बन्धामत्रेण तन्नास्ति यन्ना साधयेत्॥ ५॥
छिन्नरुपास्तु ये मन्त्राः कीलिताः स्तंभिताश्च ये
दग्धामन्त्राः शीखाहीना मलिनास्तु तिरस्कृताः
मन्दा बालास्तथा वृद्धाः प्रौढा यौवनगर्विताः
अरिपक्षे स्थिता ये च निर्वीर्याः सत्त्ववर्जिताः
तथा सत्त्वेन हीनाश्च खणिडताः श्तधाकृताः
विधानेन च संयुक्ताः प्रभवन्त्यचिरेण तु
सिद्धिमोक्षप्रदाः सर्वे गुरुणा विनियोजिताः
दाक्षयित्वा विधानेन अभिषिच्य सहस्रधा
ततो मन्त्राधिकारार्थमेषा मुद्रा प्रकीर्तिता॥ ६॥
ब्रह्महत्यासहस्राणि त्रैलोक्यमपि धातयेत्
नासौ लिप्यति पापेन योनिमुद्रानिबन्धनात्॥ ७॥
गुरुहा च सुरापी च स्तेयी च गुरुतल्पगः
एतैः पापैर्न बध्येत योनिमुद्रानिबन्धनात्॥ ८॥
तस्मादभ्यासनं नित्यं कर्तव्यं मोक्षकांक्षिभिः
अभ्यासाज्जाय ते सिद्धिरभ्यासान्मोक्षमाप्नुयात्॥ ९॥
संविदं लभतेऽभ्यासाद्योगोभ्यासात्प्रवर्तते
मुद्राणां सिद्धिरभ्यासादभ्यासाद्वायुसाधनं
कालवञ्चनमभ्यासात्तथा मृत्युञ्जयो भवेत्॥ १०॥
वाक्सिद्धिः कामचारित्वं भवेदभ्यासयोगतः
योनिमुद्रा परं गोप्या न देया यस्य कस्यचित्
सर्वथा नैव दातव्या प्राणैः कण्ठगतैरपि॥ ११॥
अधुना कथयिष्यामि योगसिद्धिकरं परम्
गोपनीयं सुसिद्धानां योगं परमदुर्लभम् ॥ १२॥
सुप्ता गुरुप्रसादेन यदा जागर्ति कुण्डली
तदा सर्वाणि पद्मानि भिद्यन्ते ग्रन्थयोपि च॥ १३॥
तस्मासर्वप्रयत्नेन प्रबोधयितुमश्विरीम्
ब्रह्मरन्ध्रमुखे सुप्तां मुद्राभ्यासं समाचरेत्॥ १४॥
महामुद्रा महाबन्धो महावेधश्च खेचरी
जालंधरो मुलबंधो विपरीतकृतिस्तथा
उड्डानं चैव वज्रोणी दशमे शक्तिचालनम्
इदं हि मुद्रादशकं मुद्राणामुत्तमोत्तमम्॥ १५॥
॥ अथ महामुद्राकथनम्॥
महामुद्रां प्रावक्ष्यामि तन्त्रेऽस्मिन्मम वल्लभे
यां प्राप्य सिद्धाः सिद्धिं च कपिलाद्याः पुरागताः॥ १६॥
अपसव्येन संपीड्य पादमूलेन सादरम्
गुरुपदेशते योनिं गुदमेढान्तरालगाम्
सव्यं प्रसारितं पादं धृत्वा पाणियुगेन वै
नवद्वाराणि संयम्य चिबुकं हृदयोपरि
चित्तं चित्तपथे दत्त्वा प्रभवेद्वायुसाधनम्
महामुद्राभवेदेषा सर्वतन्त्रेषु गोपिता
वामाङ्गेन समभ्यस्य दक्षाङ्गेनाभ्यसेत्पुनः
प्राणायामं समं कृत्वा योगी नियतमानसः॥ १७॥
अनेन विधिना योगी मन्दभाग्योपि सिध्यति
सर्वासामेव नाडीनां चालनं बिन्दुमारणम्
जीवनन्तु कषायस्य पातकानां विनाशनम्
सवरोगोपशमनं जठराग्निविवर्धनम्
वपुषा कान्तिममलां जरामृत्युविनाशनम्
वंछितार्थफलं सौख्यमिन्द्रियाणाञ्च मारणम्
एतदुक्तानि सर्वाणि योगारूढस्य योगिनः
भवेदभ्यासतोऽवश्यं नात्र कार्या विचारणा॥ १८॥
गोपनिया प्रयत्नेन मुद्रेयं सुरपूजिते
यां तु प्राप्य भवाम्भोधेः पारं गच्छन्ति योगिनः
मुद्रा कामदुघा येसर् साधकानां मयदिता
गुप्ताचारेण कर्तव्या न देया यस्य कस्यचित्॥ २०॥
॥ अथ महाबन्धकथनम्॥
ततः प्रसारितः पादो विन्यस्य तमरूपरि
गुदयोनिं समाकुंच्य कृत्वा चापानमूर्ध्वगम्
योजयित्वा समानेन कृत्वा प्राणमधोमुल्हम्
बन्धयेदूर्ध्वगत्यर्थं प्राणापानेन यः सुधीः
कथितेऽयं महाबन्धः सिद्धिमार्गप्रदायकः
नाडीजालाद्रसव्यूहो मूर्धानं याति योगिनः
उभाभ्यां साधयेत्पद्यभामेकै सप्रयत्नतः॥ २१॥
भवेदभ्यासतो वायुः सुषुम्नां मध्यसङ्गतः
अनेन वपुषः पुष्टिर्दृढबन्धोऽस्थपंजरे
संपूर्णहृदयो योगी भवन्त्येतानि योगिनः
बन्धेनानेन योगीन्द्रः साधयेत्सर्वमीप्सितम्॥ २२॥
॥ अथ महावेधकथनम्॥
अपानप्राणयोरैक्यं कृत्वा त्रिभुवनेश्वरि
महावेधस्थितो योगी कुक्ष्मापूर्य वायुना
स्फिचौ संताडयेद्धीमान्वेधोऽयं किर्तते मया॥ २३॥
वेधेनानेन संबिध्य वायुना योगिपुंगवः
ग्रंथिं सुषुम्णामार्गेण ब्रह्मग्रंथिं भिनत्त्यसौ॥ २४॥
यं करोति सदाभ्यासं महावेधं सुगोपितम्
वायुसिद्धिर्भवेत्तस्य जरामरणनाशिनी॥ २५॥
चक्रमध्ये स्थिता देवाः कम्पन्ति वायुताडनात्
कुण्डाल्यपि महामाया कैलासे सा विलीयते॥ २६॥
महामुद्रामहाबन्धौ निष्फलौ वेधवर्जितौ
तस्माद्योगी प्रयत्नेन करोति त्रितयं क्रमात्॥ २७॥
एतत्त्रयं प्रयत्नेन चतुर्वारं करोति यः
षण्मासाभ्यन्तरं मृत्युं जयत्येव न संशयः॥ २८॥
तत्त्रयस्य माहात्म्यं सिद्धो जानाति नेतरः
यज्ज्ञात्वा साधकाः सर्वे सिद्धिं सम्यग्लभन्ति वै॥ २९॥
गोपनीया प्रयत्नेन साधकैः सिद्धिमीप्सुभिः
अन्यथा च न सिद्धिः स्यान्मुद्राणामेष निश्चयः॥ ३०॥
॥ अथ खेचरीमुद्राकथनम्॥
भ्रुवोरन्तर्गतां दृष्टिं विधाय सुदृढां सुधीः
उपविश्यासने वज्रे नानोपद्रववर्जितः
लम्बिकोर्ध्वं स्थिते गर्ते रसनां विपरीतगाम्
संयोजयेत्प्रयत्नेन सुधाकूपे विचक्षणः
मुद्रैषा खेचरी प्रोक्ता भक्तानामनुरोधतः॥ ३१॥
सिद्धीनां जननी ह्येषा मम प्राणाधिकप्रिया
निरन्तरकृताभ्यासात्पीयूषं प्रत्यहं पिबेत्
तेन विग्रहसिद्धिः स्यान्मृत्युमातङ्गकेसरी॥ ३२॥
अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपिवा
खेचरी यस्य शुद्धा तु स शुद्धो नात्र संशयः॥ ३३॥
क्षणार्धं कुरुते यस्तु तीर्त्वा पापमहार्णवम्
दिव्यभोगान्प्रभुक्त्वा च सत्कुले स प्रजायते॥ ३४॥
मुद्रैषा खेचरी यस्तु स्वस्थचित्तो ह्यतन्द्रितः
शतब्रह्मगतेनापि क्षणार्धं मन्यते हि सः॥ ३५॥
गुरूपदेशते मुद्रां यो वेत्ति खेचरीमिमाम्
नानापापरतो धीमान्स याति परमां गतिम्॥ ३६॥
सा प्राणसदृशी मुद्रा यस्मिन्कस्मिन्न दीयते
प्रच्छाद्यते प्रयत्नेन मुद्रेयं सुरपूजिते॥ ३७॥
॥ अथ जालन्धरबन्धः कथनम् ॥
बद्धागलशिराजालं हृदये चिबुकं न्यसेत्
बन्धोजालन्धरः प्रोक्तो देवानामपि दुर्लभः
नाभिस्थवह्निर्जन्तूनां सहस्रकमलच्युतम्
पिबेत्पीयूषविस्तारं तदर्थं बन्धयेदिम्मम्॥ ३८॥
बन्धेनानेन पीयूषं स्वयं पिबति बुद्धिमान्
अमरत्वञ्च सम्प्राप्य मोदते भुवनत्रये॥ ३९॥
जालन्धरो बन्ध एष सिद्धानां सिद्धिदायकः
अभ्यासः क्रियते नित्यं योगिना सिद्धिमिच्छता॥ ४०॥
॥ अथ मूलबन्धः कथनम्॥
पादमूलेन संपीड्य गुदमार्गं सुयन्त्रितम्
बलादपानमाकृष्य क्रमादूर्ध्वं सुचारयेत्
कल्पितोऽयं मूलबन्धो जरामरणनाशनः॥ ४१॥
अपानप्राणयोरैक्यं प्रकरोत्यधिकल्पितम्
बन्धेनानेन सुतरां योनिमुद्रा प्रसिद्ध्यति॥ ४२
सिद्धायां योनिमुद्रायं किं न सिध्यति भूतले
बन्धस्यास्य प्रसादेन गगने विजितालसः
पद्मासने स्थितो योगी भुवमुत्सृज्य वर्तते॥ ४३॥
सुगुप्ते निर्जने देशे बन्धमेनं समभ्यसेत्
संसारसागरं तर्तुं यदीच्छेद्योगि पुंगवः॥ ४४॥
॥ अथ विपरीतकरणी मुद्राकथनम्॥
भूतले स्वशिरोदत्त्वा खे नयेच्चरणद्वयम्
विपरीतकृतिश्चैषा सर्वतन्त्रेषु गोपिता॥ ४५॥
एतद्यः कुरुते नित्यमभ्यासं याममात्रतः
मृत्युं जयति स योगी प्रलये नापि सीदति॥ ४६॥
कुरुतेऽमृतपानं यः सिद्धानां समतामियात्
स सेव्यः सर्वलोकानां बन्धमेनं करोति यः॥ ४७॥
नाभेरूर्ध्वमधश्चापि तानं पश्चिममाचरेत्
उड्ड्यानबंध एष स्यात्सर्वदुःखौघनाशनः
उदरे पश्चिमं तानं नाभेरूर्ध्वं तु कारयेत्
उड्यानाख्योऽत्र बन्धोयं मृत्युमातङ्गकेसरी॥ ४८॥
नित्यं यः कुरुते योगी चतुर्वारं दिने दिने
तस्य नाभेस्तु शुद्धिः स्याद्येन सिदो भवेन्मरुत्॥ ४९॥
षण्मासमभ्यसन्योगी मृत्युं जयति निश्चितम्
तस्योदराग्निर्ज्वलति रसवृद्धिः प्रजयते॥ ५०॥
अनेन सुतरां सिद्धिर्विग्रहस्य प्रजायते
रोगाणां संक्षयश्चापि योगिनो भवति ध्रुवम्॥ ५१॥
गुरोर्लब्ध्वा प्रयत्नेन साधयेत्तु विचक्षणः
निर्जने सुस्थिते देशे बन्धं परमदुर्लभम्॥ ५२॥
॥ अथ शक्तिचालनमुद्रा कथनम्॥
आधारकमले सुप्तां चालयेत्कुण्डलीं दृढाम्
अपानवायुमारुह्य बलादाकृष्य बुद्धिमान्
शक्तिचालनमुद्रेयं सर्वशक्तिप्रदायिनी॥ ५३॥
शक्तिचालनमेवं हि प्रत्यहं यः समाचरेत्
आयुर्वृद्धिर्भवेत्तस्य रोगाणां च विनाशनम्॥ ५४॥
विहाय निद्रा भुजगी स्वयमूर्ध्वे भवेत्खलु
तस्मादभ्यासनं कार्यं योगिना सिद्धमिन्च्छता॥ ५५॥
यः करोति सदाभ्यासं शक्तिचालनमुत्तमम्
येन विग्रहसिद्धिः स्यादणिमादिगुणप्रदा
गुरूपदेशविधिना तस्य मृत्युभयं कुतः॥ ५६॥
मुहूर्तद्वयपर्यन्तं विधिना शक्तिचालनम्
यः करोति प्रयत्नेन तस्य सिद्धिरदूरतः
युक्तासनेन कर्तव्यं योगिभिः शक्तिचालनम्॥ ५७॥
एतत्तुमुद्रादशकं न भूतं न भविष्यति
एकैकाभ्यासने सिद्धिः सिद्धो भवति नान्यथा॥ ५८॥
इति श्रीशिवसंहितायां हरगौरिसंवादे।
मुद्राकथनं चतुर्थपटलः समाप्तः। श्रीशिवार्पणमस्तु॥
ओं शान्तिश्शान्तिश्शान्तिः॥