top of page

॥ श्री शिवसंहिता॥

॥ पञ्चमः पटलः॥

     श्री देव्युवाच।

ब्रूहि मे वाक्यमीशान परमार्थधियं प्रति

ये विघ्नाः सन्तिओं लोकानां वदे मे प्रिय शङ्कर॥ १॥

     ईश्वर उवाच।

शृणु देवि प्रवक्ष्यामि यथा विघ्नाः स्थिताः सदा

मुक्तिं प्रति नराणाञ्च भोगः परमबन्धनः॥ २॥

अथ भोगरूपयोगविघ्नकथनम्।

नारी शय्यासनं वस्त्रं धनमस्य विडम्बनम्

ताम्बूलंभक्ष्ययानानि राज्यैश्वर्यविभूतयः

हैमं रौप्यं तथा ताम्रं रत्नञ्चगुरुधेनवः

पाण्डित्यं वेदशास्त्राणि नृत्यं गितं विभूषणम्

वंशी वीणा मरिदन्गाश्च गजेंद्रश्चाश्ववाहनम्

दारापत्यानि विषया विघ्ना एते प्रकीर्तिताः

भोगरूपा इमे विघ्ना धर्मरूपानिमाञ्छृणु॥ ३॥

अथ धर्मरूपयोगविघ्न्कथनम्।

स्नानं पूजाविधिर्होमं तथा मोक्षमयी स्थितिः

ब्रतोपवासनियममौनमिन्द्रियनिग्रहः

ध्येयो ध्यानं तथा मन्त्रो दानं ख्यातिर्दिशासु च

वपीकूपतडागादिप्रासादारामकल्पना

यज्ञं चान्द्रायणं कृच्छ्रं तीर्थानि विविधान च

दृश्यन्ते च इमे विघ्ना धर्मरूपेण संस्थिताः॥ ४॥

अथ ज्ञानरूपविघ्णकथनम्।

अत्तु विघ्नं भवेज्ज्ञानं कथयामि वरानने

गोमुखं स्वासनं कृत्वा धौतिप्रक्षालनं च तत्

नाडीसञ्चारविज्ञानं प्रत्याहारनिरोधनम्

कुक्षिसंचालनं क्षिप्रं प्रवेश इन्द्रियाध्वना

नाडीकर्माणि कल्याणि भोजनं श्रयतां मम॥ ५॥

नवधातुरसं छिन्धि शुण्ठिकास्ताडयेत्पुनः

एककालं समाधिः स्याल्लिंगभूतमिदं शृणु॥ ६॥

सङ्गमं गच्छ साधूनां संकोचं भज दुर्जनात्

प्रवेशनिर्गमे वायोर्गुरुलक्षं विलोकयेत्॥ ७॥

पिण्डस्थं रूपसंस्थञ्च रूपस्थं रूपवर्जितम्

ब्रह्मैतस्मिन्मतावस्था हृदयञ्च प्रशाम्यति

इत्येते कथिता विघ्ना ज्ञानरूपे व्यवस्थिताः॥ ८॥

     अथ चतुर्विधयोगकथनम्।

मन्त्रयोग हस्ठश्चैव लययोगस्तृतीयकः

चतुर्थो राजयोगः स्यात्स द्विधाभाववर्जितः॥ ९॥

चतुर्धा साधको ज्ञेयो मृदुमध्याधिमात्रकाः

अधिमात्रतमः श्रेष्ठो भवाब्धौ लंघनक्षमः॥ १०॥

     अथ मृदुसाधकलक्षणम्।

मन्दोत्साही सुसंमूढो व्याधिस्थो गुरुदूषकः

लोभी पापमतिश्चैव बह्वाशी वनिताश्रयः

चपलः कातरो रोगी पराधीनोऽतिनिष्ठुरः

मन्दाचारो मन्दवीर्यो ज्ञातव्यो ंऋदुमानवः

द्वादशाब्दे भवेत्सिद्धिरेतस्य यत्नेतः परम्

मन्त्रयोगाधिकारी स ज्ञातव्यो गुरुणा ध्रुवम्‌॥ ११॥

समबुद्धिः क्षमायुक्तः पुण्याकांक्षी प्रियंवदः

मध्यस्थः सर्वकार्येषु सामान्यः स्यान्न संशयः

एतज्ज्ञात्वैव गुरुभिर्दीयते मुक्तितो लयः॥ १२॥

     अथ अधिमात्रसाधकलक्षणम्

ष्थिरबुद्धिर्लये युक्तः स्वाधीनो वीर्यवानपि

महाशयो दयायुक्तः क्षमावान्‌सत्यवानपि

शूरो वयःस्थः श्रद्धावान्‌गुरुपादाब्नपूजकः

योगाभ्यासरतश्चैव ज्ञातव्यश्चाधिमात्रकः

एतस्य सिद्धिः षड्वर्षे भवेद्भ्यासयोगतः

एतस्मै दीयते धीरो हठयोगश्च साङ्गतः॥ १३॥

     अथ अधिमात्रतमसाधकलक्षणम्॥

महावीर्यान्वितोत्साही मनोज्ञः शौर्यवानपि

शास्त्रज्ञोऽभ्यासशीलश्च निर्मोहश्च निराकुलः

नवयौवनसम्पन्नो मिताहारी जितेंद्रियः

निर्भयश्च शुचिर्दक्षो दाता सर्वजनाश्रयः

अधिकारी स्थिरो धीमान्‌यथेच्छावस्थितः क्षमी

सुशीलो धर्मचारी च गुप्तचेष्टः प्रियंवदः

शास्त्रविश्वाससम्पन्नो देवता गुरुपूजकाः

जनसंगविरक्तश्च महाव्याधि विवर्जितः

अधिमात्रव्रतज्ञश्च सर्वयोगस्य साधकः

त्रिभिः संवत्सरैः सिद्धिरेतस्य नात्र संशयः

सर्वयोगाधिकारी स नात्र कार्या विचारणा॥ १४॥

     अथ प्रतीकोपासनम्॥

प्रतीकोपासना कार्या दृष्टादृष्टफलप्रदा

उनत दर्शनादत्र नात्र कार्या विचारणा॥ १५॥

गाढातपे स्वप्रतिविम्बितेश्वरं

निरीक्ष्य विस्फारितलोचनद्वयम्

यड नभः पश्यति स्वप्रतीकं

नभोङ्गणे तत्क्षणमेव पश्यति॥ १६॥

प्रत्यहं पश्यते यो वै स्वप्रतीकं नभोङ्गणे

आयुर्वृद्धिर्भवेत्तस्य न मृत्युः स्यात्कदाचन॥ १७॥

यदा पश्यति सम्पूर्णं स्वप्रतीकं नभोङ्गणे

तड जयमवाप्नोति वायुं निर्जित्य सञ्चरेत्॥ १८॥

यः करोति सदाभ्यासं चात्मानं वन्दते परम्

पूर्णानन्दैकपुरुषं स्वप्रतीकप्रसादतः॥ १९॥

यात्राकाले विवाहे च शुभे कर्मणि कर्मणि सङ्कटे

पापक्षये पुण्यवृद्धौ प्रतीकोपासनञ्चरेत्ह्॥ २०॥

निरन्तरकृताभ्यासादन्तरे पश्यति ध्रुवम्

तदा मुक्तिमवाप्नोति योगी नियतमानसः॥ २१॥

अंगुष्ठाभ्यामुभे श्रोत्रे तर्जनीभ्यां द्विलोचने

नासारन्ध्रे च मध्याभ्यामनामाभ्यां मुखं दृढम्

निरुध्य मारुतं योगी यदैव कुरुते भृशम्

तदा लक्षणमात्मानं ज्योतीरूपं स पश्यति॥ २२॥

तत्तेजो दृश्यते येन क्षणमात्रं निराकुलम्

सर्वपापविनिर्मुक्तः स यति परमां गतितम्॥ २३॥

निरन्तरकृताभ्यासाद्योगि विगतकल्मषः

सर्वदेहादि विस्मृत्य तदभिन्नः स्वयं गतः॥ २४॥

यः करोति सदाभ्यासं गुप्ताचारेण मानवः

स वै ब्रह्मविलीनः स्यात्पापकर्मरतो यदि॥ २५॥

गोपनीयः प्रयत्नेन सद्यः प्रत्ययकारकः

निर्वाणदायको लोके योगोयं मम वल्लभः

नादः संजायते तस्य क्रमेणाभ्यासतश्च वै॥ २६॥

मत्तभृङ्गवेणुवीणासदृशः प्रथमो ध्वनिः

एवमभ्यासतः पश्चात्‌संसारध्वान्तनाशनम्

घण्टानादसमः पश्चात्‌ध्वनिर्मेघरवोपमः

ध्वनौ तस्मिन्मनो दत्त्वा यदा तिष्ठति निर्भयः

तदा संजायते तस्य लयस्य मम वल्लभे॥ २७॥

तत्र नादे यदा चित्तं रमते योगिनो भृशम्

विस्मृत्य सकलं बह्यं नादेन सह शाम्यति॥ २८॥

एतदभ्यासयोगेन जित्वा सम्यग्गुणान्बहून्

सर्वारम्भपरित्यागी चिदाकाशे विलीयते॥ २९॥

नासनं सिद्धसदृशं न कुम्भसदृशं बलम्

न खेचरीसमा मुद्रा न नादसदृशो लयः॥ ३०॥

इदानीं कथयिष्यामि मुक्तस्यनुभवं प्रिये

यज्ज्ञात्वा लभते मुक्तिं पापयुक्तोपि साधकः॥ ३१॥

समभ्यर्च्येश्वरं सम्यक्कृत्वा च योगमुत्तमम्

गृह्णीयात्सुस्थितो भूत्वा गुरुं सन्तोष्य बुद्धिमान्॥ ३२॥

जीवादि सकलं वस्तुं दत्त्वा योगविदं गुरुम्

सन्तोष्यातिप्रयत्नेन योगोयं गृह्यते बुधैः॥ ३३॥

विप्रान्संतोष्य मेधावी नानामंगलसंयुतः

ममालये शुचिर्भूत्वा प्रगृह्णी यच्छुभात्मकम्॥ ३४॥

संयस्यानेन विधिना प्राक्तनं विग्रहादिकम्

भूत्वा दिव्यवपुर्योगी गृह्णीयाद्वक्ष्यमाणकम्॥ ३५॥

पद्मासनस्थितो योगी जनसंगविवर्जितः

विज्ञाननाडीद्वितयमङुलीभ्यां निरोधयेत्॥ ३६॥

सिद्धेस्तदाविर्भवति सुखरूपि निरञ्जनः

तस्मिन्परिश्रमः कार्यो येन सिद्धो भवेत्खलु॥ ३७॥

यः करोति सदाभ्यासं तस्य सिद्धिर्न दूरतः

बायुसिद्धिर्भवेत्तस्य क्रमादेव न संशयः॥ ३८॥

सकृद्यः कुरुते योगी पापौघं नाशयेद्ध्रुवम्

तस्य स्यान्मध्यमे वायोः प्रवेशो नात्र संशयः॥ ३९॥

एतदभ्यासशीलो यः स योगी देवपूजितः

अणिमादिगुणाँल्लब्ध्वा विचरेद्भुवनत्रये॥ ४०॥

यो यथास्यनिलाभ्यासात्तद्भवेत्तस्य विग्रहः

तिष्ठेदात्मनि मेधावी संयुतः क्रीडते भृशम्॥ ४१॥

एतद्योगं परं गोप्यं न देयं यस्य कस्यचित्

यः प्रमाणैः समायुक्तस्तमेव कथ्यते ध्रुवम्ह्॥ ४२॥

योगी पद्मासने तिष्ठेत्कण्ठकूपे यदा स्मरन्

जिह्वां कृत्वा तालुमूले क्षुत्पिपासा निवर्तते॥ ४३॥

कण्ठकूपादधः स्थाने कूर्मनाड्यस्ति शोभना

तस्मिन् योगी मनो दत्त्वा चित्तस्थैर्यं लभेद्भृशम्॥ ४४॥

षिरः कपाले रुद्राक्षं विवरं चिन्तयेद्यदा

तदा ज्योतिः प्रकाशः स्याद्विद्युत्पुञ्जसमप्रभः

एतञ्चिन्तनमात्रेण पापानां संक्षये भवेत्

दुराचारोऽपि पुरुषो लभते परमं पदम्॥ ४५॥

अहर्निशं यदा चिन्तां तत्करोति विचक्षणः

सिद्धानां दर्शनं तस्य भाषणञ्च भवेध्रुवम्॥ ४६॥

तिष्ठन् गच्छन् स्वपन् भुञ्जन् ध्यायेच्छून्यमहर्निशम्

तदाकाशमयो योगी चिदाकाशे विलीयते॥ ४७॥

एतज्ज्ञानं सदा कार्यं योगिना सिद्धिमिच्छता

निरन्तरकृताभ्यासान्मम तुल्यो भवेद्ध्रुवम्

एतज्ज्ञानबलाद्योगी सर्वेषां वल्लभो भवेत्॥ ४८॥

सर्वान् भूतान् जयं कृत्वा निराशीरपरिग्रहः

नासाग्रे दृश्यते येन पद्मासनगतेन वै

मनसो मरणं तस्य खेचरत्वं प्रसिद्ध्यति॥ ४९॥

ज्योतिः पश्यति योगीन्द्रः शुद्धं शुद्धाचलोपमम्‌

तत्राभ्यासबलेनैव स्वयं तद्रक्षको भवेत्॥ ५०॥

उत्तानशयने भूमौ सुप्त्वा ध्यायन्निरन्तरम्

सद्यः शमविनाशाय स्वयं योगी विचख़्षणः

शिरः पश्चात्तु भागस्य ध्याने मृत्युञ्जयो भवेत्

भ्रूमध्ये दृष्टिमात्रे ह्यपरः परिकीर्तितः॥ ५१॥

चतुर्विधस्य चान्नस्य रसस्त्रेधा विभज्यते

तत्र सारतमो लिंगदेहस्य परिपोषकः

सप्तधातुमयं पिण्डमेती पुष्णाति मध्यगः॥ ५२॥

याति विण्मूत्ररूपेण तृतीयः सप्तते बहिः

आद्यभागद्वयं नाड्यः प्रोक्तास्ताः सकला अपि

पोषयन्ति वपुर्वायुमापादतलमस्तकम्॥ ५३॥

नाडिभिराभिः सर्वाभिर्वायुः सञ्चरते यदा

तदैवान्नरसो देहे साम्येनेह प्रवर्तते॥ ५४॥

चतुर्दशानां तत्रेह व्यापारे मुख्यभागतः

ता अनुग्रत्वहीनाश्च प्राणसञ्चारनाडिकाः॥ ५५॥

गुदाद्वयंगुलतश्चोर्ध्वं मेढैकांगुलतस्त्वधः

एवञ्चास्ति समं कन्दं समताच्चतुरंगुलम्॥ ५६॥

पश्चिमाभिमुखीः योनिर्गुदमेढ्रान्तरालगा

तत्र कन्दं समाख्यातं तत्रास्ति कुण्डली सदा

संवेष्ट्य सकला नाडीः सार्द्धत्रिकुटलाकृतीः

मुखे निवेश्य सा पुच्छं सुषुम्णाविवरे स्थिता॥ ५७॥

सुप्ता नागोपमा ह्येषा स्फुरन्ती प्रभया स्वया

अहिवत्सन्धिसंस्थाना वाग्देवी बीजसंज्ञिका॥ ५८॥

ज्ञेया शक्तिरियं विष्णोर्निर्भरा स्वर्णभास्वरा

सत्त्वं रजस्तमश्चेति गुणत्रयप्रसूतिका॥ ५९॥

तत्र बन्धूकपुष्पाभं कामबीजं प्रकीर्तितम्

कलहेमसमं योगे प्रयुक्ताक्षररूपिणम्॥ ६०॥

सुषुम्णापि च संश्लिष्टा बीजं तत्र वरं स्थितम्

श्रच्चंद्रनिभं तेजस्स्वयमेतत्स्फुरत्स्थितम्

सूर्यकोटिप्रतीकाशं चन्द्रकोटिसुशीतलम्

एतत्त्रयं मिलित्वैव देवी त्रिपुरभैरवी

बीजसंज्ञं परंतेजस्तदेव परिकीर्तितम्॥ ६१॥

क्रियाविज्ञानश्क्तिभ्यां युतं यत्परितो भ्रमत्

उत्तिष्ठद्विशतस्त्वम्भः सूक्ष्मं शोणशिखायुतम्

योनिस्थं तत्परं तेजः स्वयंभूलिंगसंज्ञितम्॥ ६२॥

आधारपद्ममेतद्धि योनिर्यस्यास्ति कन्दतः

परिस्फुरद्वादिसान्तचतुर्वर्णं चतुर्दलम्॥ ६३॥

कुलाभिधं सुवर्णाभं स्वयम्भूलिङ्गसंगतम्

द्विरण्डो यत्र सिद्धोस्ति डकिनी यत्र देवता

तत्पद्ममध्यगा योनिस्तत्र कुण्डलिनी स्थिता

तस्या ऊर्ध्वे स्फुरत्तेजः कामबीजं भ्रमन्मतम्

यः करोति सदा ध्यानं मूलाधारे विचक्षणः

तस्य स्याद्दार्दुरी सिद्धिर्भूमित्यागक्रमेण वै॥ ६४॥

चपुषः कान्तिरुत्कृष्टा जठराग्निविवर्धनम्‌

आरोग्यञ्च पटुत्वञ्च सर्वज्ञत्वञ्च जायते॥ ६५॥

भूतं भव्यं भविष्यञ्च वेत्ति सर्वं सकारणम्

अश्रुतान्यपि शास्त्राणि सरहस्यं भवेद्ध्रुवम्॥ ६६॥

वक्त्रे सरस्वती देवी सदा नृत्यति निर्भरम्

मन्त्रसिद्धिर्भवेत्तस्य जपादेव न संशयः॥ ६७॥

जरामरणदुःखौघान्नाशयति गुरोर्वचः

इदं ध्यानं सदा कार्यं पवनाभ्यासिना परम्

ध्यानमात्रेण योगीन्द्रो मुच्यते सर्वकिल्विषात्॥ ६८॥

मूलपद्मं यदा ध्यायेद्योगी स्वयम्भुलिङ्गकम्

तदा तत्क्षणमात्रेण पापौघं नाशयेद्ध्रुवम्॥ ६९॥

यं यं कामयते चित्ते तं तं फलमवाप्नुयत्

निरन्तरकृताभ्यासात्तं पश्यति विभुक्तिदम्

बहिरभ्यन्तरे श्रेष्ठं पूजनीयं प्रयत्नतः

ततः श्रेष्ठतमं ह्येतन्नान्यदस्ति मतं मम॥ ७०॥

आत्मसंस्थं शिवं त्यक्त्वा बहीःस्थं यः समर्चयेत्

हस्तस्थं पिण्डमुत्सृज्य भ्रमते जीविताशया॥ ७१॥

आत्मलिंगार्चनं कुर्यादनालस्यं दिने दिने

तस्य स्यात्सकला सिद्धिर्नात्र कार्या विचारणा॥ ७२॥

निरन्तरकृताभ्यासात्षण्मासैः सिद्धिमाप्नुयात्

तस्य वायुप्रवेशोपि सुषुम्णायाम्भवेद्ध्रुवम्॥ ७३॥

मनोजयञ्च लभते वायुविन्दुविधारणात्

ऐहिकामुष्मिकीसिद्धिर्भवेन्नैवात्र संशयः॥ ७४॥

     अथ स्वाधिष्ठानचक्रविवरणम्॥

द्वितीयन्ते सरोजञ्च लिंगमूले व्यवस्थिम्

बादिलान्तं च षड्वर्णं परिभास्वरषड्दलम्

स्वाधिष्ठानाभिधं टर्तु पंकजं शोणरूपकम्

बालाख्यो यत्र सिदोऽस्ति देवी यत्रास्ति राकिणी॥ ७५॥

वो ध्यायति सदा दिव्यं स्वाधिष्ठानाराविन्दकम्

तस्य कामाङ्गना सर्वा भजन्ते काममोहिताः॥ ७६॥

विविधञ्चाश्रुतं शास्त्रं निःङ्को वै भवेद्ध्रुवम्

सर्वरोगविनिर्मुक्तो लोके चरति निर्भयः॥ ७७॥

मरणं खाद्यते तेन स केनापि न खाद्यते

तस्य स्यात्परमा सिद्धिरणिमादिगुणप्रदा

वायुः सञ्चरते देहे रसवृद्धिर्भवेद्ध्रुवम्

आकाशपङ्कजगलत्पीयूषमपि वर्द्धते॥ ७८॥

     अथ मणिपूरचक्रविवरणम्॥

तृतीयं पङ्कजं नाभौ मणिपूरकसंज्ञकम्

दशारंडादिफान्तार्णं शोभितं हेमवर्णकम्॥ ७९॥

रुद्राख्यो यत्र सिद्धोऽस्ति सर्वमङ्गलदायकः

तत्रस्था लाकिनी नाम्नी देवी परमधार्मिका॥ ८०॥

तस्मिन् ध्यानं सदा योगी करोति मणिपूरके

तस्य पातालसिद्धः स्नान्निरन्तरसुखावहा

ईप्सितञ्च भवेल्लोके दुःखरोगविनाशनम्

कालस्य वञ्चनञ्चापि परेदेहप्रवेशनम्॥ ८१॥

जाम्बूनदादिकरणं सिद्धानां दर्शनं भवेत्

आषधीदर्शनञ्चापि निधीनां दर्शनं भवेत्॥ ८२॥

     अथ अनाहतंचक्रविवरणम्॥

हृदयेऽनाहतं नाम चतुर्थं पङ्कजं भवेत्

कादिठान्तार्णसंस्थानं द्वादशारसमन्वितम्

अतिशोणं वायुबीजं प्रसादस्थानमीरितम्॥ ८३॥

पद्मस्थं तत्परं तेजो बाणलिंगं प्रकीर्तितम्

यस्य स्मरणमात्रेण दृष्टादृष्टफलं लभेत्॥ ८४॥

सिद्धः पिनाकी यत्रास्ते काकिनी यत्र देवता

एतस्मिन्सततं ध्यानं हृत्पाथोजे करोति यः

क्षुभ्यन्ते तस्य कान्ता वै कामार्ता दिव्ययोषितः॥ ८५॥

ज्ञानञ्चाप्रतिमं तस्य त्रिकालविषयम्भवेत्

दूरश्रुतिर्दूरदृष्टिः स्वेच्छया स्वगतां व्रजेत्॥ ८६॥

सिद्धानां दर्शनञ्चापि योगिनी दर्शनं तथा

भवेत्खेचरसिद्धिश्च खेचराणां जयन्तथा॥ ८७॥

यो ध्यायति परं नित्यं बाणलिंगं द्वितीयकम्

खेचरी भूचरी सिद्धिर्भवेत्तस्य न् असंशयः॥ ८८॥

एतद्ध्यानस्य माहात्म्यं कथितुं नैव शक्यते

ब्रह्माद्याः सकला देवा गोपयन्ति परन्त्विदम्॥ ८९॥

     अथ विशुद्धचक्रविवरणम्॥

कण्ठस्थानस्थितं पद्मं विशुद्धं नामपञ्चमम्

सुहेमाभं स्वरोपेतं षोडशस्वरसंयुतम्

छगलाण्डोऽस्ति सिद्धोत्र शाकिनी चाधिदेवता॥ ९०॥

ध्यानं करोति यो नित्यं स योगीश्वरपण्डितः

किन्त्वस्य योगिनोऽन्यत्र विशुद्धाख्ये सरोरुहे

चतुर्वेदा विभासन्ते सरहस्या निधेरिव॥ ९१॥

रहःस्थाने स्थितो योगी यदा क्रोधवशो भवेत्

तदा समस्तं त्रैलोक्यं कम्पते नात्र संशयः॥ ९२॥

इह स्थाने मनो यस्य दैवाद्यातिलयं यदा

तदा बाह्यं परित्यज्य स्वान्तरे रमते ध्रुवम्॥ ९३॥

तस्य न क्षतिमायाति स्वशरीरस्य शक्तितः

संवत्सरसहस्रेऽपि वज्रातिकठिनस्य वै॥ ९४॥ 

यदा त्यजति तद्ध्यानं योगींद्रोऽवनिमण्दले

तदा वर्षसहस्राणि मन्यते तत्क्षणं कृती॥ ९५॥

     अथ आज्ञाचक्रविवरणम्॥

आज्ञापद्मं भ्रुवोर्मध्ये हक्षोपेतं द्विपत्रकम्

शुक्लाभं तन्महाकालः सिद्धो देव्यत्र हाकिनी॥ ९६॥

शरच्चंद्रनिभं तराक्षरबीजं विजंभितम्

पुमान्‌परमहंसोऽयं यज्ज्ञात्वा नावसीदति॥ ९७॥

एतदेव परन्तेजः सर्वतन्त्रेषु मन्त्रिणः

चिन्तयित्वा परां सिद्धिं लभते नात्र संशय॥ ९८॥

तुरीयं त्रितयं लिंगं तदाहं मुक्तिदायकः

ध्यानमात्रेण  योगीन्द्रो मत्समो भवति ध्रुवम्॥ ९९॥

इडा हि पिंगला ख्याता वरणासीति होच्यते

वाराणसी तयोर्मध्ये विश्वनाथोत्र भाषितः॥ १००॥

एतत्क्षेत्रस्य माहात्म्यमृषिभिस्तत्त्वदर्शिभिः

शास्त्रेषु बहुधा प्रोक्तं परं तत्त्वं सुभाषितम्॥ १०१॥

सुषुम्णा मेरुणा याता ब्रह्मरन्ध्रं यतोऽस्ति वै

ततश्चैषा परावृत्य तदाज्ञापद्मदक्षिणे

वामनासापुटं याति गंगेति परिगीयते॥ १०२॥

ब्रह्मरन्द्रे हि यत्पद्मं सहस्रारं व्यवस्थितम्

तत्र कन्देहि या योनिस्तस्यां चन्द्रो व्यवस्थितः

त्रिकोणाकारतस्तस्याः सुधा क्षरति सन्ततम्

इडायाममृतं तत्र समं स्रवति चन्द्रमाः

अमृतं वहति धारा धारारूपं निरन्तरम्

वामनासापुटं याति गंगेत्युक्ता हि योगिभिः॥ २०३॥

आज्ञापङ्कजदक्षांसाद्वामनासापुटंगता

ऊदग्वहेति तत्रेडा वरणा समुदाहृता॥ १०४॥

टतो द्वयोर्हि मध्ये तु वाराणसीति चिन्तयेत्

तदाकारा पिंगलापि तडज्ञाकमलान्तरे

दक्षनासापुटे याति प्रोक्तास्माभिरसीति वै॥ १०५॥

मूलाधारे हि यत्पद्मं चतुष्पत्रं व्यवस्थितम्

तत्र मध्येहि या योनिस्तस्यां सूर्यो व्यवस्थितः॥ १०६॥

तत्सूर्यमण्डलद्वाराद्विषं क्षरति सन्ततम्

पिंगलायां विषं तत्र समर्पयति तापनः॥ १०७॥

विषं तत्र वहन्ती या धारारूपं निरन्तरम्

दक्षनासापुटे याति कल्पितेयन्तु पूर्ववत्॥ १०८॥

आज्ञापङ्कजवामास्याद्दक्षनासापुटं गता

उदग्वहा पिंगलापि पुरासीति प्रकिर्तिता॥ १०९॥

आज्ञापद्ममिदं प्रोक्तं यत्र देवो महेश्वरः

पीठत्रयं ततश्चोर्ध्वं निरुक्तं योगचिन्तकैः

तद्बिन्दुनादशक्त्याख्यं भालपद्मे व्यवस्थितम्॥ ११०॥

यः करोति सदाध्यानमाज्ञापद्मस्य गोपितम्

पूर्वजन्मकृतं कर्म विनश्येदविरोधतः॥ १११॥

इह स्थितो यदा योगी ध्यानं कुर्यान्निरन्तरम्

तदा करोति प्रतिमां पूजाजपमनर्थवम्॥ ११२॥

यक्षराक्षसगन्धर्वा अप्सरोगणकिन्नराः

सेवन्ते चरणौ तस्य सर्वे तस्य वशानुगाः॥ ११३॥

करोति रसनां योगी प्रविष्टां विपरीतगाम्

लम्बिकोर्ध्वेषु गर्तेषु धृत्वा ध्यानं भयापहम्

अस्मिन् स्थाने मनो यस्य क्षणार्धं वर्ततेऽचलम्

तस्य सर्वाणि पापानि संक्षयं यान्ति तत्क्षणात्॥११४॥

यान्नि यानि हि प्रोक्तानि पंचपद्मे फलानि वै

तानि सर्वाणि सुतरामेतज्ज्ञानाद्भवन्ति हि॥ ११५॥

यः करोति सदाभ्यासमाज्ञा पद्मे विचक्षणः

वासनाया महाबन्धं तिरस्कृत्य प्रमोदते॥ ११६॥

प्राणप्रयाणसमये तत्पद्मं यः स्मरन्सुधीः

त्यजेत्प्राणं स धर्मात्मा परमात्मनि लीयते॥ ११७॥

तिष्ठन्‌गच्छन्‌स्वपन्‌जग्रत्‌यो ध्यानं कुरुते नरः

पापकर्मविकुर्वाणो हनि मज्जति किल्विषो॥ ११८॥

योगी बन्धाद्विनिर्मुक्ताः स्वीयया प्रभया स्वयम्

द्विदलध्यानमाहात्म्यं कथितुं नैव शक्यते

ब्रह्मादिदेवताश्चैव किञ्चिन्मत्तो विदन्ति ते॥ ११९॥

अत उर्ध्वं तालुमूले सहस्रारंसरोरुहम्

अस्ति यत्र सुषुम्णाया मूलं सविवरं स्थितम्॥ १२०॥

तालुमूले सुषुम्णा सा अधोवक्त्रा प्रावर्तते

मूला धारेणयोन्यस्ताः सर्वनाड्यः समाश्रिताः

ता बीजभूतास्तत्त्वस्य ब्रह्ममार्गप्रदायिकाः॥ १२१॥

तालुस्थाने च यत्पद्मं सहस्रारं पुराहितम्

तत्कन्दे योनिरेकास्ति पश्चिमाभिमुखी मता॥ १२२॥

तस्या मध्ये सुषुम्णाया मूलं सविवरं स्थितम्

ब्रह्मरन्ध्रं तदेवोक्तमामूलाधारपङ्कजम्॥ १२३॥

ततस्तद्रन्ध्रे तच्छक्तिः सुषुम्णा कुण्डली सदा

सुषुम्णायां सदा शक्तिश्चित्रा स्यान्मम वल्लभे

तस्यां मम मते कार्या ब्रह्मरन्ध्रादिकल्पना॥ १२४॥

यस्याः स्मरणमात्रेण ब्रह्मज्ञत्वं प्रजायते

पापक्षयश्च भवति न भूयः पुरुषो भवेत्॥ १२५॥

प्रवेशितं चलाङ्गुष्ठं मुखे स्वस्य निवेशयेत्

तेनात्र न वहत्येव देहचारी समीरणः॥ १२६॥

तेन संसारचक्रेस्मिन् भ्रमतीत्येव सर्वदा

तदर्थं ये प्रवर्तन्ते योगी न प्राणधारणे

तत एवाखिला नाडी विरुद्धा चाष्टवेष्टनम्

इयं कुण्डलिनी शक्ती रन्ध्रं त्यजति नान्यथा॥ १२७॥

यदा पूर्णासु नाडीषु सन्निरुद्धानिलास्तदा

बन्भत्यागेन कुण्डल्या मुखं रन्ध्राद् बहिर्भवेत्॥ १२८॥

सुषुम्णायां सदैवायं वहेत्प्रणसमीरणः

मूलपद्मास्थिता योनिर्वामदक्षिणकोणतः

इडापिंगलयोर्मध्ये सुषुम्णा योनिमध्यगा॥ १२९॥

ब्रह्मरन्ध्रंतु तत्रैव सुषुम्णाधारमण्डले

यो जानाति स मुक्तः स्यात्कर्मबन्धाद्विचक्षणः॥ १३०॥

ब्रह्मरन्ध्रमुखे तासां स।गमः स्यादसंशयः

तस्मिन्स्नाने स्नातकानां मुक्तिः स्यादविरोधतः॥ १३१॥

गंगायमुनयोर्मध्ये वहत्येषा सरस्वती

तासां तु संगमे स्नात्वा धन्यो याति परां गतिम्॥ १३२॥

इडा गंगा पुरा प्रोक्ता पिंगला चार्कपुत्रिका

मध्या सरस्वती प्रोक्ता तासां संगोऽतिदुर्लभः॥ १३३॥

सितासिते संगमे यो मनसा स्नानमाचरेत्

सर्वपापविनिर्मुक्तो याति ब्रह्म सनातनम्॥ १३४॥

त्रिवेण्यां संगमे यो वै पितृकर्म समाचरेत्

तारयित्वा पितॄन्सर्वान्स याति परमां गतिम्॥ १३५॥

नित्यं नैमित्तिकं काम्यं प्रत्यहं यः समाचरेत्

मनसा चिन्तयित्वा तु सोऽक्षयं फलमाप्नुयात्॥ १३६॥

सकृद्यः कुरुते स्नानं स्वर्गे सौख्यं भुनक्ति सः

दग्ध्वा पापानशेषान्वै योगी शुद्धमतिः स्वयम्॥ १३७॥

अपवित्रः पवित्री व सर्वावस्थां गतोपि वा

स्नानाचरणमात्रेण पूतो भवति नान्यथा॥ १३८॥

मृत्युकाले प्लुतं देहं त्रिवेण्याः सलिले यदा

विचिन्त्य यस्त्यजेत्प्राणान्स तदा मोक्षमाप्नुयात्॥ १३९॥

नातःपरतरं गुह्यं त्रिषु लोकेषु विद्यते

गोप्तव्यं तत्प्रयत्नेन न व्याख्येयं कदाचन॥ १४०॥

ब्रह्मरन्ध्रे मनो दत्त्वा क्षणार्धं यदि तिष्ठति

सर्वापापविनिर्मुक्तः स याति परमां गतिम्॥ १४१॥

अस्मिँल्लीनं मनो यस्य स योगी मयि लीयते

आनिमादिगुणान्भुक्त्वा स्वेच्छया पुरूषोत्तमः॥ १४२॥

एतद्रन्ध्रध्यानमात्रेण मर्त्यः

संसारे स्मिन्वल्लभो मे भवेत्सः

पापाञ्जित्वा मुक्तिमार्गाधिकारी

ज्ञानं दत्त्वा तारयत्यद्भुतं वै॥१४३॥

चतुर्मुखादित्रिदशैरगम्यं योगिवल्लभम्

प्रयत्नेन सुगोप्यं तद्ब्रह्मरन्ध्रं नयोदितम्॥ १४४॥

पुरा मयोक्ता मयोक्ता या योनिः सहस्रारे सरोरुहे

तस्याऽधो वर्तते चन्द्रस्तद्ध्यानं क्रियते बुधैः॥ १४५॥

यस्य स्मरणमात्रेण योगीन्द्रोऽवनिमण्डले

पूज्यो भवति देवानां सिद्धानां सम्मतो भवेत्॥ १४६॥

शिरःकपालविवरे ध्यायेद्दग्धमहोदधिम्

तत्र स्थित्वा सहस्रारे पद्मे चन्द्रं विचिन्तयेत्॥ १४७॥

शिरःकपालविवरे द्विरष्ठकलया युतः

पियूषभानुहंसाख्यं भावयेत्तं निरंजनम्

निरन्तरकृताभासात्त्रिदिने पश्यति ध्रुवम्

दृष्टिमात्रेण पापौघं दहत्येव स साधकः॥ १४८॥

अनागतञ्च स्फुरति चित्तशुद्धिर्भवेत्खलु

सद्यः कृत्वापि दहति महापातकपञ्चकम्॥ १४९॥

आनुकूल्यं ग्रहा यान्ति सर्वे नश्यन्त्युपद्रवाः

उपसर्गाः शम यान्ति युद्धे जयमवाप्नुयात्

खेचरीभूचरीसिद्धिर्भवेत्क्षीरेन्दुदर्शनात्

ध्यानादेवभवे त्सर्वं नत्रा कार्या विचारणा

सतताभ्यासयोगेन सिद्धो भवति नान्यथा

सत्यं सत्यं पुनः सत्यं मम तुल्यो भवेद्ध्रुवम्

योगशास्त्रेऽप्यभिरतं योगिनां सिद्धिदायकम्॥ १५०॥

     अथ राजयोगकथनम्॥

आत ऊर्ध्वं दिव्यरूपं सहस्रारं सरोरुहम्

ब्रह्माण्डाख्यस्य देहस्य बाह्ये तिष्ठति मुक्तिद १५१॥

कैलासे नाम तस्यैव महेशो यत्र तिष्ठति

नकुलाख्योऽविनाशी च क्षयवृद्धिविवर्जितः॥ १५२॥

स्थानस्यास्य ज्ञानमात्रेण नृणां

संसारेऽस्मिन्सम्भवो नैव भुयः

भूतग्रामं सन्तताभ्यासयोगात्कर्तुं

ज़र्तुम् स्याच्च शक्तिः समग्रा॥ १५३॥

स्थने परे हंसनिवासभूते कैलासनाम्नीह निविष्ठचेताः

योगी हृतव्याधिरधः कृताधिवरायुश्चिरं जीवति मृत्युमुक्तः॥ १५४

चित्तवृत्तिर्यदा लीना कुलाख्ये परमेश्वरे

तदा समाधिसाम्येन योगी निश्चलतां व्रजेत्॥ १५५॥

निरन्तरकृतेध्याने जगद्विस्मरणं भवेत्

तदा विचित्रसामर्थ्यं योगिनो भवति ध्रुवम्॥ १५६॥

तस्माद्गलितपीयूषं पिबेद्योगी निरन्तरम्

मृत्योर्मृत्युं विधायाशु कुलं जित्वा सरोरुहे

अत्र कुण्डलिनी शक्तिर्लयं यति कुलाभिधा

तदा चतुर्विधा सृष्टर्लीयते परमात्मनि॥ १५७॥

यज्ज्ञात्वा प्राप्य विषयं चि‍अत्तवृत्तिर्विलीयते

तस्मिन् परिश्रमं योगी करोति निरपेक्षकः॥ १५८॥

चित्तवृत्तियदालीना तस्मिन् योगी भवेद्ध्रुवम्

तदा विज्ञायतेऽखण्डज्ञानरूपो निरञ्जनः॥ १५९॥

ब्रह्माण्डबाह्ये संचिंत्य स्वप्रतीकं यथोदितम्

तमावेश्य महच्छून्यं चिन्तयेदविरोधतः॥ १६०॥

आद्यन्तमध्यशून्यं तत्कोटिसूर्यसमप्रभम्

चन्द्रकोटिप्रतीकाशमभ्यस्य सिद्धिमाप्नुयात्॥ १६१॥

एतद्ध्यानं सदा कुर्यादनालस्यं दिने दिने

तस्य स्यात्सकला सिद्धिर्वत्सरान्नात्र संशयः॥ १६२॥

क्षणार्धं निश्चलं तत्र मनो यस्य भवेद्ध्रुवम्

ष एव योगी सद्भक्तः सर्वलोकेषु पूजितः॥ १६३॥

टस्य कल्मषसंघातस्तत्क्षणादेव नस्यति॥ १६४॥

यं दृष्ट्वा न प्रवर्तंते मृत्युसंसारवर्त्मनि

अभ्यसेत्तं प्रयत्नेन स्वाधिष्ठानेन वर्त्मना॥ १६५॥

एतद्ध्यानस्य माहात्म्यं मया वत्कुं न शक्यते

यः साधयति जानाति सोस्माकमपि सम्मतः॥ १६६॥

ध्यानादेव विजानाति विचित्रेक्षणसम्भवम्

अणिमादिगुणोपेतो भवत्येव न संशयः॥ १६७॥

राजयोगो मयाख्यातः सर्वतन्त्रेषु गोपितः

राजाधिराजयोगोऽयं कथयामि समासतः॥ १६८॥

स्वस्तिकञ्चासनं कृत्वा सुमठे जन्तुवर्जिते

गुरुं संपूज्य यत्नेन ध्यानमेतत्समाचरेत्॥ १६९॥

निरालब्धं भवेज्जीवं ज्ञात्वा वेदान्तयुक्तितः

निरालम्बं मनः कृत्वा न किञ्चिच्चिन्तयेत्सुधीः॥ १७०॥

एतद्ध्यानान्महासिद्धिर्भवत्येव न संशयः

वृत्तिहिनं मनः कृवा पुर्णरूपं स्वयं भवेत्॥ १७१॥

साधयेत्सततं यो वै स योगी विगतस्पृहः

अहंनाम न कोप्यस्ति सर्वदात्मैव विद्यते॥ १७२॥

को बन्धः कस्य वा मोक्ष एकं पश्येत्सदा हि सः

एतत्करोति यो नित्यं स मुक्तो नात्र संशयः॥ १७३॥

स एव योगी सद्भक्तः सर्वलोकेषु पूजितः

अहमस्मीति यन्मत्वा जीवात्मपरमात्मनोः

अहं त्वमेतदुभयं त्यक्त्वाखण्डं विचिन्तयेत्

अध्यारोपापवादाभ्यां यत्र सर्वं विलीयते

तद्बीजमाश्रयेद्योगी सर्वसंगविवर्जितः॥ १७४॥

अपरोक्षं चिदानन्दं पूर्णं त्यक्त्वा भ्रमाकुलाः

परोक्षं चापरोक्षं च कृत्वा मूढा भ्रमन्ति वै॥ १७५॥

चराचरमिदं विश्वं परोक्षं यः करोति च

अपरोक्षं परं ब्रह्म त्यक्तं तस्मिन्‌प्रलीयते॥ १७६॥

ज्ञानकारणमज्ञानं यथा नोत्पद्यते भृशम्

अभ्यासं कुरुते योगी सदा सङ्गविवर्जितम्॥ १७७॥

सर्वेन्द्रियाणि संयम्य विषयेभ्यो विचक्षणः

विषयेभ्यः सुषुप्त्यैव तिष्ठेत्संगविवर्जितः॥ १७८॥

एवमभ्यसतो नित्यं स्वप्रकाशं प्रकाशते

श्रोतुं बुद्धिसमर्थार्थं निवर्तन्ते गुरोर्गिरः

तदभ्यासवशादेकं स्वतो ज्ञानं प्रवर्तते॥ १७९॥

यतो वाचो निवर्तन्ते अप्राप्य मनसा सह

साधनादमलं ज्ञानं स्वयं स्फुरति तद्ध्रुवम्॥ १८०॥

हठं विना राजयोगो राजयोगं विना हठः

तस्मात्प्रवर्तते योगी हठे सद्गुरुमार्गतः॥ १८१॥

स्थिते देहे जीवति च योगं न श्रियते भृशम्

इन्द्रियार्थोपभोगेषु स जीवति न संशयः॥ १८२॥

अभ्यासपाकपर्यन्तं मितान्नं स्मरणं भवेत्

अनाथा साधनं धीमान्‌कर्तुं पारयतीहन॥ १८३॥

अतीवसाधुसंलापोवदेत्‌संसदिबुद्धिमान्

करोति पिण्डरक्षार्थं बह्वालापविवर्जितः

त्यज्यते त्यज्यते सङ्गं सर्वथा त्यज्यते भृशम्

अन्यथा न लभेन्मुक्तिं सत्यं सत्यं मयोदितम्॥ १८४॥

गुप्त्यैव क्रियतेऽभ्यासः संगं त्यक्त्वा तदन्तरे

व्यवहाराय कर्तव्यो बाह्ये स।गानुरागतः 

स्वे स्वे कर्मणि वर्तंते सर्वे ते कर्मसम्भवाः

निमित्तमात्रं करणे न दोषोस्ति कदाचन॥ १८५॥

एवं निश्चित्य सुधिया गृहस्थोपि यदाचरेत्

तदासिद्धिमवाप्नोति नात्र कार्या विचारणा॥ १८६॥

पापपूण्यविनिर्मुक्तः परित्यक्ताङ्गसाधकः

यो भवेत्स विमुक्तः स्याद्गृहे तिष्ठन्सदा गृही

न पापपुण्यैर्लिप्येत योगयुक्तो सदा गृही

कुर्वन्नपि तदा पापान्स्वकार्ये लोकसंग्रहे॥ १८७॥

अधुना संप्रवक्ष्यामि मन्त्रसाधनमुत्तमम्

ऐहिकामुष्मिकसुखं येन स्यादविरौधतः॥ १८८॥

यस्मिन्मन्त्रे वरे ज्ञाते योगसिद्धिर्भवेत्खलु

योगेन साधकेन्द्रस्य सर्वैश्वये सुखप्रदा॥ १८९॥

मूलाधारेस्ति यत्पद्मं चतुर्दलसमन्वितम्

तन्मध्ये वाग्भवं बीजं विस्फुरन्तं तडित्प्रभम्॥ १९०॥

हृदये कामबीजंतु बन्धूककुसुमप्रभम्

आज्ञारविन्दे शक्त्याख्यं चन्द्रकोटिसमप्रभम्

बीजत्रयमिदं योप्यं न्हुक्तिमुक्तिफलप्रदम्

एतन्मन्त्रत्रयं योगी साधयेत्सिद्धिसाधकः॥ १९१॥

एतन्मन्त्रं गुरोर्लब्ध्वा न द्रुतं न विलम्बितम्

अक्षराक्षरसन्धानं निःसन्दिग्धमना जपेत्॥ १९२॥

तद्गतश्चैकचित्तश्च शास्त्रोक्तविधिना सुधीः

देव्यास्तु पुरतो लक्षं हुत्वा लक्षत्रयं जपेत्॥१९३॥

करवीरप्रसूनन्तु गुडक्षिराज्यसंयुतम्

कुण्डे योन्याकृते धीमाञ्जपान्ते जुहुयात्सुधीः॥ १९४॥

अनुष्ठाने कृते धीमान्पूर्वसेवा कृता भवेत्

ततो ददाति कामान्वै देवी त्रिपुरभैरवी॥ १९५॥

गुरुं सन्तोष्य विधिवल्लब्ध्वा मन्त्रवरोत्तमम्

अनेन विधिना युक्तो मन्दभाग्योऽपि सिद्ध्यति॥ १९६॥

लक्षमेकं जपेद्यस्तु साधको विजितेन्द्रियः

दर्शनात्तस्य क्षुभ्यन्ते योषितो मदनातुराः

पतन्तु साधकस्याग्रे निर्लज्जा भयवर्जिताः॥ १९७॥

जप्तेन चेद्द्विलक्षेण ये यस्मिन्विषये स्थिताः

आगच्छन्ति यथातीर्थं विमुक्तकुलविग्रहाः

डदति तस्य सर्वस्वं तस्यैव च वशे स्थिताः॥ १९८॥

त्रिभिर्लक्ष्ःऐस्तथाजप्तैर्मण्डलीकाः समण्डलाः

वशमायान्ति ते सर्वे नात्र कार्या विचारणा॥ १९९॥

षड्भिर्लक्षैर्महीपालं सभृत्यबलवाहनम्॥ २००॥

लक्षैर्द्वादशभीर्जप्तैर्यक्षरक्षोरगेश्वराः

वशमायान्ति ते सर्वे आज्ञां कुर्वन्ति नित्यशः॥ २०१॥

त्रिपञ्चलक्षजप्तैस्तु साधकेन्द्रस्य धीमतः

सिद्धविद्याधराश्चैव गन्धर्वाप्सरसांगणाः

वशमायान्ति ते सर्वे नात्र कार्या विचारणा

हठाच्छ्रवणविज्ञानं सर्वज्ञात्वं प्रजायते॥ २०२॥

तथाष्टदशभिर्लक्षैर्देहेनानेन साधकः

उत्तिष्ठेन्मेदिनीं तत्‌यक्त्वा दिव्यदेहस्तु जायते

भ्रमते स्वेच्छया लोके छिद्रां पश्यति मेदिनीम्॥ २०३॥

अष्टाविंशतिभिर्लक्षैर्विद्याधरपतिर्भवेत्

साधकस्तु भवेद्धिमान्कामरुपो महाबलः

त्रिंशल्लक्षैस्तथाजप्तैर्ब्रह्मविष्णुसमो भवेत्

रुद्रत्वं षष्टिभिर्लक्षैरमरत्वमशीतिभिः

कोट्यैकया महायोगी लीयते परमे पदे

साधकस्तु भवेद्योगी त्रैलोक्ये सोऽतिदुर्लभः॥ २०४॥

त्रिपुरे त्रिपुरन्त्वेकं शिवं परमकारणम्।

अक्षयं तत्पदं शान्तमप्रमेयमनामयम्॥

लभतेऽसौ न सन्देहो धीमान्सर्वमभीप्सितम्॥ २०५॥

शिवविद्या महाविद्या गुप्ता चाग्रे महेश्वरी।

मद्भाषितमिदं षास्त्रं गोपनीयमतो बुधैः॥ २०६॥

हठविद्या परंगोप्या योगिना सिद्धिमिच्छता।

भवेद्वीर्यवती गुप्ता निर्वीर्या च प्रकाशिता॥ २०७॥

य इदं पठते नित्यमाद्योपान्तं विचक्षणः

योगसिद्धिर्भवेत्तस्य क्रमेणैव न संशयः

समोक्षं लभते धीमान्य इदं नित्यमर्चयेत्॥ २०८॥

मोक्षार्थिभ्यश्च सर्वेभ्यः साधुभ्यः श्रावयेदपि।

क्रियायुक्तस्य सिद्धिः स्यादक्रियस्य कथम्भवेत॥ २०९॥

तस्मात्क्रियाविधानेन कर्तव्या योगिपुंगवै

यदृच्छालाभसन्तुष्टः सन्त्यक्त्वान्तरसंज्ञाकः

गृहस्थश्चाप्यनासक्तः स मुक्तो योगसाधनात्॥ २१०॥

गृहस्थानां भवेत्सिद्धिरीश्वराणां जपेन वै

योगक्रियाभियुक्तानाण् तस्मात्संयतते गृही॥ २११॥

गेहे स्थित्वा पुत्रदारादिपूर्णाः सङ्गं त्यक्त्वा चान्तरे योगमार्गे

सिद्धेश्चिह्नं वीक्ष्य पश्चाद्‌गृहस्थः क्रीडेत्सो वै मम्मतं साधयित्वा॥२१२॥

इति श्रीशिवसंहितायां हरगौरिसंवादे।

योगशास्त्रे पंचमः पटलः समाप्तः। श्रीशिवार्पणमस्तु॥

ओं शान्तिश्शान्तिश्शान्तिः॥

Copyright © 2018 - 2025 mahaasiddhaanaaM kramaH. Todos los derechos reservados.

bottom of page