

॥ श्री अनुगीता पर्वन्॥
द्वितीयोऽध्यायः
ओं श्री परमात्मने नमः
श्रीमदनुगीता पर्वन्। अथ द्वितीयोऽध्यायः॥*
वासुदेव उवाच।
ततस्तस्योपसङ्गृह्य पादौ प्रश्नान्सुदुर्वचान्।
पप्रच्छ तांश्च सर्वान्स प्राह धर्मभृतां वरः॥ १॥
काश्यप उवाच।
कथं शरीरं च्यवते कथं चैवोपपद्यते।
कथं कष्टाच्च संसारात्संसरन्परिमुच्यते॥ २॥
आत्मानं वा कथं युक्त्वा तच्छरीरं विमुञ्चति।
शरीरतश्च निर्मुक्तः कथमन्यत्प्रपद्यते॥ ३॥
कथं शुभाशुभे चायं कर्मणी स्वकृते नरः।
उपभुङ्क्ते क्व वा कर्म विदेहस्योपतिष्ठति॥ ४॥
ब्रह्मन उवाच।
एवं सञ्चोदितः सिद्धः प्रश्नांस्तान्प्रत्यभाषत।
आनुपूर्व्येण वार्ष्णेय यथा तन्मे वचः शृणु॥ ५॥
सिद्ध उवाच।
आयुः कीर्तिकराणीह यानि कर्माणि सेवते।
शरीरग्रहणेऽन्यस्मिंस्तेषु क्षीणेषु सर्वशः॥ ६॥
आयुः क्षयपरीतात्मा विपरीतानि सेवते।
बुद्धिर्व्यावर्तते चास्य विनाशे प्रत्युपस्थिते॥ ७॥
सत्त्वं बलं च कालं चाप्यविदित्वात्मनस्तथा।
अतिवेलमुपाश्नाति तैर्विरुद्धान्यनात्मवान्॥ ८॥
यदायमतिकष्टानि सर्वाण्युपनिषेवते।
अत्यर्थमपि वा भुङ्क्ते न वा भुङ्क्ते कदा चन॥ ९॥
दुष्टान्नं विषमान्नं च सोऽन्योन्येन विरोधि च।
गुरु वापि समं भुङ्क्ते नातिजीर्णेऽपि वा पुनः॥ १०॥
व्यायाममतिमात्रं वा व्यवायं चोपसेवते।
सततं कर्म लोभाद्वा प्राप्तं वेगविधारणम्॥ ११॥
रसातियुक्तमन्नं वा दिवा स्वप्नं निषेवते।
अपक्वानागते काले स्वयं दोषान्प्रकोपयन्॥ १२॥
स्वदोषकोपनाद्रोगं लभते मरणान्तिकम्।
अथ चोद्बन्धनादीनि परीतानि व्यवस्यति॥ १३॥
तस्य तैः कारणैर्जन्तोः शरीराच्च्यवते यथा।
जीवितं प्रोच्यमानं तद्यथावदुपधारय॥ १४॥
ऊष्मा प्रकुपितः काये तीव्रवायुसमीरितः।
शरीरमनुपर्येति सर्वान्प्राणान्रुणद्धि वै॥ १५॥
अत्यर्थं बलवानूष्मा शरीरे परिकोपितः।
भिनत्ति जीव स्थानानि तानि मर्माणि विद्धि च॥ १६॥
ततः स वेदनः सद्यो जीवः प्रच्यवते क्षरन्।
शरीरं त्यजते जन्तुश्छिद्यमानेषु मर्मसु।
वेदनाभिः परीतात्मा तद्विद्धि द्विजसत्तम॥ १७॥
जातीमरणसंविग्नाः सततं सर्वजन्तवः।
दृश्यन्ते सन्त्यजन्तश्च शरीराणि द्विजर्षभ॥ १८॥
गर्भसङ्क्रमणे चापि मर्मणामतिसर्पणे।
तादृशीमेव लभते वेदनां मानवः पुनः॥ १९॥
भिन्नसन्धिरथ क्लेदमद्भिः स लभते नरः।
यथा पञ्चसु भूतेषु संश्रितत्वं निगच्छति।
शैत्यात्प्रकुपितः काये तीव्रवायुसमीरितः॥ २०॥
यः स पञ्चसु भूतेषु प्राणापाने व्यवस्थितः।
स गच्छत्यूर्ध्वगो वायुः कृच्छ्रान्मुक्त्वा शरीरिणम्॥ २१॥
शरीरं च जहात्येव निरुच्छ्वासश्च दृश्यते।
निरूष्मा स निरुच्छ्वासो निःश्रीको गतचेतनः॥ २२॥
ब्रह्मणा सम्परित्यक्तो मृत इत्युच्यते नरः।
स्रोतोभिर्यैर्विजानाति इन्द्रियार्थाञ्शरीरभृत्।
तैरेव न विजानाति प्राणमाहारसम्भवम्॥ २३॥
तत्रैव कुरुते काये यः स जीवः सनातनः।
तेषां यद्यद्भवेद्युक्तं संनिपाते क्व चित्क्व चित्।
तत्तन्मर्म विजानीहि शास्त्रदृष्टं हि तत्तथा॥ २४॥
तेषु मर्मसु भिन्नेषु ततः स समुदीरयन्।
आविश्य हृदयं जन्तोः सत्त्वं चाशु रुणद्धि वै।
ततः स चेतनो जन्तुर्नाभिजानाति किं चन॥ २५॥
तमसा संवृतज्ञानः संवृतेष्वथ मर्मसु।
स जीवो निरधिष्ठानश्चाव्यते मातरिश्वना॥ २६॥
ततः स तं महोच्छ्वासं भृशमुच्छ्वस्य दारुणम्।
निष्क्रामन्कम्पयत्याशु तच्छरीरमचेतनम्॥ २७॥
स जीवः प्रच्युतः कायात्कर्मभिः स्वैः समावृतः।
अङ्कितः स्वैः शुभैः पुण्यैः पापैर्वाप्युपपद्यते॥ २८॥
ब्राह्मणा ज्ञानसम्पन्ना यथावच्छ्रुत निश्चयाः।
इतरं कृतपुण्यं वा तं विजानन्ति लक्षणैः॥ २९॥
यथान्ध कारे खद्योतं लीयमानं ततस्ततः।
चक्षुष्मन्तः प्रपश्यन्ति तथा तं ज्ञानचक्षुषः॥ ३०॥
पश्यन्त्येवंविधाः सिद्धा जीवं दिव्येन चक्षुषा।
च्यवन्तं जायमानं च योनिं चानुप्रवेशितम्॥ ३१॥
तस्य स्थानानि दृष्टानि त्रिविधानीह शास्त्रतः।
कर्मभूमिरियं भूमिर्यत्र तिष्ठन्ति जन्तवः॥ ३२॥
ततः शुभाशुभं कृत्वा लभन्ते सर्वदेहिनः।
इहैवोच्चावचान्भोगान्प्राप्नुवन्ति स्वकर्मभिः॥ ३३॥
इहैवाशुभ कर्मा तु कर्मभिर्निरयं गतः।
अवाक्स निरये पापो मानवः पच्यते भृशम्।
तस्मात्सुदुर्लभो मोक्ष आत्मा रक्ष्यो भृशं ततः॥ ३४॥
ऊर्ध्वं तु जन्तवो गत्वा येषु स्थानेष्ववस्थिताः।
कीर्त्यमानानि तानीह तत्त्वतः संनिबोध मे।
तच्छ्रुत्वा नैष्ठिकीं बुद्धिं बुध्येथाः कर्म निश्चयात्॥ ३५॥
तारा रूपाणि सर्वाणि यच्चैतच्चन्द्रमण्डलम्।
यच्च विभ्राजते लोके स्वभासा सूर्यमण्डलम्।
स्थानान्येतानि जानीहि नराणां पुण्यकर्मणाम्॥ ३६॥
कर्म क्षयाच्च ते सर्वे च्यवन्ते वै पुनः पुनः।
तत्रापि च विशेषोऽस्ति दिवि नीचोच्चमध्यमः॥ ३७॥
न तत्राप्यस्ति सन्तोषो दृष्ट्वा दीप्ततरां श्रियम्।
इत्येता गतयः सर्वाः पृथक्त्वे समुदीरिताः॥ ३८॥
उपपत्तिं तु गर्भस्य वक्ष्याम्यहमतः परम्।
यथावत्तां निगदतः शृणुष्वावहितो द्विज॥ ३९॥
ओं तत्सदिति अश्वमेधपर्वन् श्री अनुगीता योगशास्त्रे।
श्रीकृष्णार्जुनसंवादे सप्तदशोऽध्यायः समाप्ता॥
श्रीगुरुनाथः चरणायार्पणमस्तु।
॥ ओं शान्तिश्शान्तिश्शान्तिः॥
_________________
* सप्तदशोऽध्यायः॥