top of page

॥ श्री अनुगीता पर्वन्॥

चतुर्थोऽध्यायः

ओं श्री परमात्मने नमः

श्रीमदनुगीता पर्वन्। अथ चतुर्थोऽध्यायः॥*

     ब्रह्मन उवच।

यः स्यादेकायने लीनस्तूष्णीं किं चिदचिन्तयन्।

पूर्वं पूर्वं परित्यज्य स निरारम्भको भवेत्॥ १॥

सर्वमित्रः सर्वसहः समरक्तो जितेन्द्रियः।

व्यपेतभयमन्युश्च कामहा मुच्यते नरः॥ २॥

आत्मवत्सर्वभूतेषु यश्चरेन्नियतः शुचिः।

अमानी निरभीमानः सर्वतो मुक्त एव सः॥ ३॥

जीवितं मरणं चोभे सुखदुःखे तथैव च।

लाभालाभे प्रिय द्वेष्ये यः समः स च मुच्यते॥ ४॥

न कस्य चित्स्पृहयते नावजानाति किं चन।

निर्द्वन्द्वो वीतरागात्मा सर्वतो मुक्त एव सः॥ ५॥

अनमित्रोऽथ निर्बन्धुरनपत्यश्च यः क्व चित्।

त्यक्तधर्मार्थकामश्च निराकाङ्क्षी स मुच्यते॥ ६॥

नैव धर्मी न चाधर्मी पूर्वोपचितहा च यः।

धातुक्षयप्रशान्तात्मा निर्द्वन्द्वः स विमुच्यते॥ ७॥

अकर्मा चाविकाङ्क्षश्च पश्यञ्जगदशाश्वतम्।

अस्वस्थमवशं नित्यं जन्म संसारमोहितम्॥ ८॥

वैराग्य बुद्धिः सततं तापदोषव्यपेक्षकः।

आत्मबन्धविनिर्मोक्षं स करोत्यचिरादिव॥ ९॥

अगन्ध रसमस्पर्शमशब्दमपरिग्रहम्।

अरूपमनभिज्ञेयं दृष्ट्वात्मानं विमुच्यते॥ १०॥

पञ्च भूतगुणैर्हीनममूर्ति मदलेपकम्।

अगुणं गुणभोक्तारं यः पश्यति स मुच्यते॥ ११॥

विहाय सर्वसङ्कल्पान्बुद्ध्या शारीर मानसान्।

शनैर्निर्वाणमाप्नोति निरिन्धन इवानलः॥ १२॥

विमुक्तः सर्वसंस्कारैस्ततो ब्रह्म सनातनम्।

परमाप्नोति संशान्तमचलं दिव्यमक्षरम्॥ १३॥

अतः परं प्रवक्ष्यामि योगशास्त्रमनुत्तमम्।

यज्ज्ञात्वा सिद्धमात्मानं लोके पश्यन्ति योगिनः॥ १४॥

तस्योपदेशं पश्यामि यथावत्तन्निबोध मे।

यैर्द्वारैश्चारयन्नित्यं पश्यत्यात्मानमात्मनि॥ १५॥

इन्द्रियाणि तु संहृत्य मन आत्मनि धारयेत्।

तीव्रं तप्त्वा तपः पूर्वं ततो योक्तुमुपक्रमेत्॥ १६॥

तपस्वी त्यक्तसङ्कल्पो दम्भाहङ्कारवर्जितः।

मनीषी मनसा विप्रः पश्यत्यात्मानमात्मनि॥ १७॥

स चेच्छक्नोत्ययं साधुर्योक्तुमात्मानमात्मनि।

तत एकान्तशीलः स पश्यत्यात्मानमात्मनि॥ १८॥

संयतः सततं युक्त आत्मवान्विजितेन्द्रियः।

तथायमात्मनात्मानं साधु युक्तः प्रपश्यति॥ १९॥

यथा हि पुरुषः स्वप्ने दृष्ट्वा पश्यत्यसाविति।

तथारूपमिवात्मानं साधु युक्तः प्रपश्यति॥ २०॥

इषीकां वा यथा मुञ्जात्कश्चिन्निर्हृत्य दर्शयेत्।

योगी निष्कृष्टमात्मानं यथा सम्पश्यते तनौ॥ २१॥

मुञ्जं शरीरं तस्याहुरिषीकामात्मनि श्रिताम्।

एतन्निदर्शनं प्रोक्तं योगविद्भिरनुत्तमम्॥ २२॥

यदा हि युक्तमात्मानं सम्यक्पश्यति देहभृत्।

तदास्य नेशते कश्चित्त्रैलोक्यस्यापि यः प्रभुः॥ २३॥

अन्योन्याश्चैव तनवो यथेष्टं प्रतिपद्यते।

विनिवृत्य जरामृत्यू न हृष्यति न शोचति॥ २४॥

देवानामपि देवत्वं युक्तः कारयते वशी।

ब्रह्म चाव्ययमाप्नोति हित्वा देहमशाश्वतम्॥ २५॥

विनश्यत्ष्वपि लोकेषु न भयं तस्य जायते।

क्लिश्यमानेषु भूतेषु न स क्लिश्यति केन चित्॥ २६॥

दुःखशोकमयैर्घोरैः सङ्गस्नेह समुद्भवैः।

न विचाल्येत युक्तात्मा निस्पृहः शान्तमानसः॥ २७॥

नैनं शस्त्राणि विध्यन्ते न मृत्युश्चास्य विद्यते।

नातः सुखतरं किं चिल्लोके क्व चन विद्यते॥ २८॥

सम्यग्युक्त्वा यदात्मानमात्मयेव प्रपश्यति।

तदैव न स्पृहयते साक्षादपि शतक्रतोः॥ २९॥

निर्वेदस्तु न गन्तव्यो युञ्जानेन कथं चन।

योगमेकान्तशीलस्तु यथा युञ्जीत तच्छृणु॥ ३०॥

दृष्टपूर्वा दिशं चिन्त्य यस्मिन्संनिवसेत्पुरे।

पुरस्याभ्यन्तरे तस्य मनश्चायं न बाह्यतः॥ ३१॥

पुरस्याभ्यन्तरे तिष्ठन्यस्मिन्नावसथे वसेत्।

तस्मिन्नावसथे धार्यं स बाह्याभ्यन्तरं मनः॥ ३२॥

प्रचिन्त्यावसथं कृत्स्नं यस्मिन्कायेऽवतिष्ठते।

तस्मिन्काये मनश्चार्यं न कथं चन बाह्यतः॥ ३३॥

संनियम्येन्द्रियग्रामं निर्घोषे निर्जने वने।

कायमभ्यन्तरं कृत्स्नमेकाग्रः परिचिन्तयेत्॥ ३४॥

दन्तांस्तालु च जिह्वां च गलं ग्रीवां तथैव च।

हृदयं चिन्तयेच्चापि तथा हृदयबन्धनम्॥ ३५॥

इत्युक्तः स मया शिष्यो मेधावी मधुसूदन।

पप्रच्छ पुनरेवेमं मोक्षधर्मं सुदुर्वचम्॥ ३६॥

भुक्तं भुक्तं कथमिदमन्नं कोष्ठे विपच्यते।

कथं रसत्वं व्रजति शोणितं जायते कथम्।

तथा मांसं च मेदश्च स्नाय्वस्थीनि च पोषति॥ ३७॥

कथमेतानि सर्वाणि शरीराणि शरीरिणाम्।

वर्धन्ते वर्धमानस्य वर्धते च कथं बलम्।

निरोजसां निष्क्रमणं मलानां च पृथक्पृथक्॥ ३८॥

कुतो वायं प्रश्वसिति उच्छ्वसित्यपि वा पुनः।

कं च देशमधिष्ठाय तिष्ठत्यात्मायमात्मनि॥ ३९॥

जीवः कायं वहति चेच्चेष्टयानः कलेवरम्।

किं वर्णं कीदृशं चैव निवेशयति वै मनः।

याथातथ्येन भगवन्वक्तुमर्हसि मेऽनघ॥ ४०॥

इति सम्परिपृष्टोऽहं तेन विप्रेण माधव।

प्रत्यब्रुवं महाबाहो यथा श्रुतमरिन्दम॥ ४१॥

यथा स्वकोष्ठे प्रक्षिप्य कोष्ठं भाण्ड मना भवेत्।

तथा स्वकाये प्रक्षिप्य मनो द्वारैरनिश्चलैः।

आत्मानं तत्र मार्गेत प्रमादं परिवर्जयेत्॥ ४२॥

एवं सततमुद्युक्तः प्रीतात्मा नचिरादिव।

आसादयति तद्ब्रह्म यद्दृष्ट्वा स्यात्प्रधानवित्॥ ४३॥

न त्वसौ चक्षुषा ग्राह्यो न च सर्वैरपीन्द्रियैः।

मनसैव प्रदीपेन महानात्मनि दृश्यते॥ ४४॥

सर्वतः पाणिपादं तं सर्वतोऽक्षिशिरोमुखम्।

जीवो निष्क्रान्तमात्मानं शरीरात्सम्प्रपश्यति॥ ४५॥

स तदुत्सृज्य देहं स्वं धारयन्ब्रह्म केवलम्।

आत्मानमालोकयति मनसा प्रहसन्निव॥ ४६॥

इदं सर्वरहस्यं ते मयोक्तं द्विजसत्तम।

आपृच्छे साधयिष्यामि गच्छ शिष्ययथासुखम्॥ ४७॥

इत्युक्तः स तदा कृष्ण मया शिष्यो महातपाः।

अगच्छत यथाकामं ब्राह्मणश्छिन्नसंशयः॥ ४८॥

     वासुदेव उवाच।

इत्युक्त्वा स तदा वाक्यं मां पार्थ द्विजपुङ्गवः।

मोक्षधर्माश्रितः सम्यक्तत्रैवान्तरधीयत॥ ४९॥

कच्चिदेतत्त्वया पार्थ श्रुतमेकाग्रचेतसा।

तदापि हि रथस्थस्त्वं श्रुतवानेतदेव हि॥ ५०॥

नैतत्पार्थ सुविज्ञेयं व्यामिश्रेणेति मे मतिः।

नरेणाकृत सञ्ज्ञेन विदग्धेनाकृतात्मना॥ ५१॥़

सुरहस्यमिदं प्रोक्तं देवानां भरतर्षभ।

कच्चिन्नेदं श्रुतं पार्थ मर्त्येनान्येन केन चित्॥ ५२॥

न ह्येतच्छ्रोतुमर्होऽन्यो मनुष्यस्त्वामृतेऽनघ।

नैतदद्य सुविज्ञेयं व्यामिश्रेणान्तरात्मना॥ ५३॥

क्रियावद्भिर्हि कौन्तेय देवलोकः समावृतः।

न चैतदिष्टं देवानां मर्त्यै रूपनिवर्तनम्॥ ५४॥

परा हि सा गतिः पार्थ यत्तद्ब्रह्म सनातनम्।

यत्रामृतत्वं प्राप्नोति त्यक्त्वा दुःखं सदा सुखी॥ ५५॥

एवं हि धर्ममास्थाय योऽपि स्युः पापयोनयः।

स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम्॥ ५६॥

किं पुनर्ब्राह्मणाः पार्थ क्षत्रिया वा बहुश्रुताः।

स्वधर्मरतयो नित्यं ब्रह्मलोकपरायणाः॥ ५७॥

हेतुमच्चैतदुद्दिष्टमुपायाश्चास्य साधने।

सिद्धेः फलं च मोक्षश्च दुःखस्य च विनिर्णयः।

अतः परं सुखं त्वन्यत्किं नु स्याद्भरतर्षभ॥ ५८॥

श्रुतवाञ्श्रद्दधानश्च पराक्रान्तश्च पाण्डव।

यः परित्यजते मर्त्यो लोकतन्त्रमसारवत्।

एतैरुपायैः स क्षिप्रं परां गतिमवाप्नुयात्॥ ५९॥

एतावदेव वक्तव्यं नातो भूयोऽस्ति किं चन।

षण्मासान्नित्ययुक्तस्य योगः पार्थ प्रवर्तते॥ ६०॥

ॐ तत्सदिति अश्वमेधपर्वन् । श्री अनुगीता योगशास्त्रे।

श्रीकृष्णार्जुनसंवादे नवदशोऽध्यायः समाप्ता॥

          श्रीगुरुनाथः चरणायार्पणमस्तु॥

            ओं शान्तिश्शान्तिश्शान्तिः॥

कॉपीराइट © 2018 महासाधाह पंथीएचएच। सर्वाधिकार सुरक्षित।
bottom of page